SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणे। द्वितीयः सर्गः। कर्णीतरतताशक्तरक्तचामरसंहति । तं यथाधित्यकाधीनरक्ताशोकमहावनं ।। ३४ ॥ सुवर्णरिक्षया चाळ परिवेष्टितविग्रहं । तमेव च यथोपात्तकनकननमेखलं ॥ ३५ ॥ अनेकरदसंवृत्तनृत्यसंगीतपोषितं । तमिवोत्तुंगशृंगाग्रनृत्यगायत्सुरांगनं ॥ ३६ ॥ सुवृतदीर्घसंचारिकररुद्धदिगंतरं । तमिवात्यायतिस्थूलस्फुरद्भोगभुजंगमं ॥ ३७॥ ऐशानधारितस्फीतधवलातपवारणं । तमिवोर्ध्वस्थिताभ्यर्णसंपूर्णशशिमंडलं ॥ ३८ ॥ चामरेंद्रभुजोत्क्षिप्तचलचामरहारिणं । तं यथा चमरीक्षिप्तबालव्यजनवीजितं ॥ ३९ ॥ ऐरावतं समारोप्य जिनेन्द्रं तस्य मंडनं । देवैः सह गतः पाप मंदरं स पुरंदरः॥४०॥ (कुलक) तं पांडकवने रम्ये मंदरस्य जिनं हरिः । पांडुकायां प्रसिद्धायां शिलायां सिंहविष्टरे ॥४१॥ संस्थाप्य विबुधानीतक्षीरसागरवारिभिः। सातकुंभमयैः कुंभरभिषिच्य समं सुरैः ॥ ४२ ॥ वस्त्रालंकारमालाबैरलंकृत्य कृतस्तुतिः । आनीय मातुरुत्संगे जिनं कृत्वा कृतोचितः ॥ ४३ ॥ सिद्धार्थप्रियकारिण्योः सममानंददायकं । वर्धमानाख्यया स्तुत्वा सदेवो वासवोऽगमत् ॥४४॥ मासान्पंचदशाऽऽजन्म द्युम्नधारा दिनेदिने । याः पूर्वमापतंस्ताभिस्तर्पितोऽर्थी जनोऽखिलः४५ वर्धमानः सुरैः सेव्यो ववृधे स यथा यथा । पितृबंधुत्रिलोकानामनुरागस्तथा तथा ॥ ४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy