SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । १३ द्वितीयः सर्गः । पद्मरागमणिस्फीतिर्यत्र प्रासादमूर्धनि । इनपादपरिष्वंगा दंगने वातिरज्यते ॥ ९ ॥ मुक्तामरकतालोकैर्वज्रवैदूर्यविभ्रमैः । एकमेव सदा धत्ते यत्समस्ताकरश्रियं || १० || शालशैलमहाचप्रपरिखापरिवेषिणः । यस्योपरि परं गच्छत्यामित्रेर्तेरमंडलं || ११ | एतावतैव पर्याप्तं पुरस्य गुणवर्णनं । स्वर्गावतरणे तद्यद्वीरस्याधरतां गतं ।। १२ ।। सर्वार्थश्रीमतीजन्मा तस्मिन् सर्वार्थदर्शनः । सिद्धार्थोऽभवदर्का भो भूपःसिद्धार्थपौरुषः ।। १३ ।। यत्र पाति धरित्रीयमभूदेकत्रदोषिणी । धर्मार्थिन्योऽपि यत्यक्तपरलोकभयाः प्रजाः ॥ १४ ॥ कस्तस्य तान् गुणानुद्यान्नरस्तुलयितुं क्षमः । वर्धमानगुरुत्वं यः प्रापितः स नराधिपः ।। १५ ।। उच्चैःकुलाद्रिसंभूता सहजस्नेहवाहिनी । महिषी श्रीसमुद्रस्य तस्यासीत् प्रियकारिणी ॥ १६ ॥ चेतश्चेकराजस्य यास्ताः सप्तशरीरजाः । अतिस्नेहाकुलं चक्रुस्तास्वाद्या प्रियकारिणी ॥ १७ ॥ कस्तां योजयितुं शक्तस्त्रिशलां गुणवर्णनैः । या स्वपुण्यैर्महावीरप्रसवाय नियोजिता ॥ १८ ॥ सर्वतोऽथनमंतीषु सर्वासु सुरकोटिषु । प्रभावान्निपतंतीषु नभसो वसुवृष्टिषु ॥ १९ ॥ वीरेऽवतरति त्रातुं धरित्रीमसुधारिणः । तीर्थेनाच्युतकल्पोच्चैः पुष्पोत्तर विमानतः ॥ २० ॥ १ सूर्यकिरण । २ सूर्यमंडलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy