________________
हारवंशपुराणं ।
द्वितीयः सर्गः। मुक्त्वा लोकपुराणतिर्यगपथभ्रांतिं विवेकी जनो, गृह्णातु प्रगुणां पुराणपदवीमेतां हितप्रापिणी ॥ दिग्मूढं विरहय्य मोहबहुलं संशुद्धदृष्टिः परो, विस्तीर्णे जिनभास्करप्रकटिते मार्गे भूगोः कापते२८ ___ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ संग्रहविभागवर्णनोनाम प्रथमः सर्गः ॥ १॥
द्वितीयः सर्गः। अथ देशोऽस्ति विस्तारी जंबूद्वीपस्य भारते । विदेह इति विख्यातः स्वर्गखंडसमाश्रियः ॥१॥ प्रतिवर्षविनिष्पन्नधान्यगोधनसंचितः । सर्वोपसर्गनिर्मुक्तः प्रजासौस्थित्यसुंदरः ॥२॥ सखेटकीटाटोपिमटंबपुटभेदनैः । द्रोणामुखाकरक्षेत्रग्रामभूषविभूषितः ॥३॥ किं तत्र वर्ण्यते यत्र स्वयं क्षत्रियनायकाः । इक्ष्वाकवः सुखक्षेत्रे संभवंति दिवश्च्युताः ॥ ४ ॥ तत्राखंडलनेवालीपद्मिनीखंडमंडनं । सुखांभःकुंडमाभाति नाम्ना कुंडपुरं पुरं ॥ ५ ॥ यत्र प्रासादसंघातैः शंखशुभैर्नभस्तलं । धवलीकृतमाभाति शरन्मेधैरिवोन्नतैः ॥ ६ ॥ चंद्रकांतकरस्पर्शाचंद्रकांतशिलाः निशि । द्रवंति यद्हाग्रेषु प्रस्वेदिन्य इव स्त्रियः ॥ ७ ॥ सूर्यकांतकरासंगात् सूर्यकांताग्रकोटयः । स्फुरंति यत्र गेहेषु विरक्ता इव योषितः॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org