SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। प्रथमः सर्गः । त्रिषष्टिपुरुषोभृति सजिनांतरविस्तरं । बलदेवपरिप्रश्नं ततः प्रद्युम्नदीक्षणं ॥ ११७ ।। रुक्मिण्यादिहरिस्त्रीणां दुहितृणां च संयमं । द्वीपायनमुनेःकोधात् द्वारवत्या विनाशनं ॥१८॥ रामकेशवयोः प्लुष्टबंधुपुत्रकलत्रयोः । निर्गमं दुर्गमं शोकं कौशांबवनसेवनं ॥ ११९ ॥ शीरिरक्षणमुक्तस्य प्रमादादैवयोगतः । जरत्कुमारमुक्तेन शरेण हननं हरेः ॥ १२० ॥ ततो घातकशोकं च शोक रामस्य दुस्तरं । सिद्धार्थबोधितस्यास्य निर्विण्णस्य तपस्यन ॥१२॥ ब्रह्मलोकोपपादं च कौंतेयानां तपोवनं । ऊर्जयंतगिरावंते नेमिनाथस्य निर्वृतिं ॥ १२२ ॥ उपसर्गजयं पंचपांडवानां महात्मनां । दीक्षां जरत्कुमारस्य संतानं तस्य चायतं ॥ १२३ ।। हरिवंशप्रदीपस्य जितशत्रोश्च केवलं । पुरप्रवेशमंते च श्रेणिकस्य पृथुश्रियः ॥ १२४ ॥ वर्धमानजिनेशस्य निर्वाणं गणिनां तथा । देवलोककृतं वक्ष्ये प्रदीपमहिमोदयं ॥ १२५ ॥ हरिवंशपुराणस्य विभागोयं ससंग्रहः । श्रूयतां विस्तरः सिद्धथै भव्यैः सभ्यैरतः परं ॥१२६। एकस्यापि महानरस्य चरितं पापस्य विध्वंसन, सर्वेषां जिनचक्रवर्तिहलिनामेतबुधाः किं पुनः पार्यकस्य महाधनस्य महतस्तापस्य विच्छेदक, लोकव्यापिघनाघनौघनिपतद्धारासहस्रं म किं । १ मित्रकलत्रयोरित्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy