SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । प्रथमः सर्गः । वृष्णिदीक्षा तथा राज्यं समुद्रविजयस्य तु । वसुदेवस्य सौभाग्यमुपायेन च निर्गमं ॥ ७९ ॥ लाभं कन्यकयोस्तस्य सोमाविजयसेनयोः । वन्यहस्तिवशीकारं श्यामया सह संगम ॥ ८० ॥ अंगारकेण हरणं, चंपायां च विमोचनं । लाभं गंधर्वसेनाया मुनर्विष्णोविचेष्टितं ॥ ८१॥ चरितं चारुदत्तस्य तस्येव मुनिदर्शनं । चारुनीलयशालाभं सोमश्रीलाभमेव च ॥८२॥ वेदोत्पत्तिमुपाख्यानं सौदासस्य नृपस्य तु । कपिलाकन्यकालाभं पद्मावत्युपलंभनं ।। ८३ ॥ संप्राप्ति चारुहासिन्या रत्नवत्यास्ततोऽपि च । सोमदत्तसुतालाभं वेगवत्याश्च संगमं ॥ ८४ ॥ लाभ मदनवेगाया बालचंद्रावलोकनं । प्रियंगुसुंदरीलामं बंधुमत्या समन्वितं ।। ८५ ॥ प्रभावत्याः परिप्राप्ति रोहिण्याश्च स्वयंवरं । संग्रामे विजयं तस्य भ्रातृभिः सह संगमं ॥ ८६ ॥ बलदेवसमुत्पत्ति कंसोपाख्यानमेव च । जरासंधस्य वचनात सिंहस्यंदनबंधनं ॥ ८७ ॥ तथा जीवद्यशोलामं कंसस्य पितृबंधनं । देवक्या सह संयोग ततोऽप्यानकदुंदुभैः ।। ८८ ॥ सत्यातिमुक्तकादेशं कंससंक्षोभकारणं । प्रार्थनं वसुदेवस्य देवकीप्रसवं प्रति ॥ ८९॥ आनकेन मुनेः प्रश्नमष्टपुत्रभवांतरं । चरितं नेमिनाथस्य पापप्रमथनं तथा ॥९॥ १ वसुदेवस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy