SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। प्रथमः सर्गः । उत्पत्तिं वासुदेवस्य गोकुले बालचेष्टितं । ग्रहणं सर्व शास्त्राणां बलदेवोपदेशतः ॥ ९१ ॥ चापरत्नसमारोपं कालिंद्यां नागनाथनं । वाजिवारणचाणूरमल्लकंसवधं ततः ॥ ९२ ॥ उग्रसेनस्य राज्यं च सत्यभामाकरग्रहं । सर्वज्ञातिसमेतस्य प्रीतिं च परमां हरेः॥ ९३ ।। जीवद्यशोविलापं च जरासंधषं ततः । प्रेषितस्य रणे कालयवनस्य पराभवं ॥ ९४ ॥ तथाऽपराजितस्यापि मारणं हरिणा रणे । शौरीणां परमं तोषमकुतोभयतः स्थितिं ।। ९५ ॥ शिवादेव्याः सुतोत्पत्तौ षोडशस्वप्नदर्शनं । फलानां कथनं पत्या नेमिनाथसमुद्भवं ॥ ९६ ॥ मेरौ जन्माभिषेकं च बालक्रीडामहोदयं । जरासंधातिसंधानं शौरिसागरसंश्रयं ॥ ९७ ॥ देवताकृतमायातो जरासंधनिवर्तनं । विष्णोः साष्टमभक्तस्य दर्भशय्याविरोहणं ॥ ९८ ।। गौतमेनेंद्रवचनात् सागरस्यापसारणं । कुबेरेण क्षणात्तत्र द्वारावत्या निवेशनं ॥ ९९ ॥ रुक्मिणीहरणं भास्वद्भानुप्रद्युम्नसंभवं । रौक्मिणेयहतिं पूर्ववैरिणा धूमकेतुना ॥ १० ॥ विजया स्थितिं पित्रोनारदेनेष्टसूचनं । प्राप्ति षोडशलाभानां प्रज्ञप्तरुपलंभनं ।। १०१ ॥ . कालशंवरसंग्रामं पितृमातृसमागमं । शंबोत्पत्तिशिशुक्रीडां प्रश्नं चापि पितुःपितुः॥ १०२ ॥ तेन स्वहिंडनाख्यानं कुमाराणां च कीत्तेनं । वातोपलंभाद् दुतस्य प्रेषणं प्रतिशत्रुणा ॥१०३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy