SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । प्रथमः सर्गः । पूर्वाचार्येभ्य एतेभ्यः परेभ्यश्च वितन्वतः । एकदेशागमस्यायमेकदेशोपदिश्यते ॥ ६६ ॥ अर्थतः पूर्व एवायमपूर्वी ग्रंथतोऽल्पतः । शास्त्रविस्तर भीरुभ्यः क्रियते सारसंग्रहः ॥ ६७ ॥ मनोवाक्कायशुद्धस्य भव्यस्याभ्यस्यतः सदा । श्रेयस्करपुराणार्थो वक्तुः श्रोतुश्च जायते ।। ६८ ।। बाह्याभ्यंतरभेदेन द्विविधेऽपि तपोविधौ । अज्ञानप्रतिपक्षत्वात् स्वाध्यायः परमं तपः ।। ६९ ।। यतस्ततः पुराणार्थः पुरुषार्थकरः परः । वक्तव्यो देशकालज्ञैः श्रोतव्यस्त्यक्तमत्सरैः ॥ ७० ॥ लोकसंस्थानमत्रादौ राजवंशोद्भवस्ततः । हरिवंशावतारोऽतो वसुदेवविचेष्टितं ॥ ७१ ॥ चरितं नेमिनाथस्य द्वारावत्या निवेशनं । युद्धवर्णननिर्वाणे पुराणेऽष्टौ शुभा इमे ॥ ७२ ॥ संग्रहादधिकारैः स्वैः संगृहीतैरलंकृताः । अधिकाराः सूत्रिताः प्राक्सूरि सूत्रानुसारिभिः ॥ ७३ ॥ संग्रहेण विभागेन विस्तारेण च वस्तुनः । शासने देशना यस्माद् विभागः कथ्यते ततः ॥ ७४ ॥ वर्धमान जिनेंद्रस्य धर्मतीर्थप्रवर्तनं । गणभृत्गणसंख्यानं भूयो राजगृहागमं ॥ ७५ ॥ गौतम श्रेणिक प्रश्नं क्षेत्रकालनिरूपणं । ततः कुलकरोत्पत्तिमुत्पत्तिं वृषभस्य च ॥ ७६ ॥ कीर्त्तनं क्षत्रियादीनां हरिवंशप्रवर्त्तनं । मुनिसुव्रतनाथस्य तत्र वंशे समुद्भवं ।। ७७ ।। दक्षप्रजापतेर्वृत्तं वसुवृत्तांतमेव च । जननं वृष्णिपुत्राणां सुप्रतिष्ठस्य केवलं ॥ ७८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy