________________
हरिवंशपुराण ।
प्रथमः सर्गः । निर्गुणाऽपि गुणान् सद्भिः कर्णपूरीकृता कृतिः। बिभर्येव वधूवक्त्रैश्चूतस्येवाग्रमंजरी ॥४२॥ साधुरस्यति काव्यस्य दोषवत्तामयाचितः । पावकः शोधयत्येव कलधौतस्य कालिकां ॥ ४३॥ काव्यस्यांतर्गतं लेपं कुतश्चिदपि सत्सभाः। प्रक्षिपंति बहिः क्षिप्रं सागरस्येव वीचयः॥४४॥ मुक्ताफलतयाऽऽदानात् परिषद्भिः कृतिः स्फुरेत् । जलात्मापि विशुद्धाभिस्तोयधेरिव शुक्तभिः ४५ दुर्वचो विषदुष्टांतर्मुखे स्फुरितजिहकान् । निगृह्णति खलव्यालान् सन्नरेंद्राःस्वशक्तिभिः ॥४६॥ रजोबहुलमारूक्षं खलं कालं विदाहिनं । संतः काले कलध्वानाः शमयंति यथा धनाः ॥४७॥ साध्वसाधुसमाकारप्रवृत्तमबुधं बुधाः । वारयति तमोराशिं रवींदोरिव रश्मयः ॥४८॥ इत्थं साधुसहायोऽहमनातंकमनुद्धतं । देहं काव्यमयं लोके करोमि स्थिरमात्मनः ॥ ४९ ॥ बद्धमूलं भुवि ख्यातं बहुशाखाविभूषितं । पृथुपुण्यफलं पूर्त कल्पवृक्षसमं परं ॥५०॥ अरिष्टनेमिनाथस्य चरितेनोज्ज्वलीकृतं । पुराणं हरिवंशाख्यं ख्यापयामि मनोहरं ॥५१॥ धुमणिद्योतनं द्योत्यं द्योतयंति यथाणवः । मणिप्रदीपखद्योतविद्युतोऽपि यथायथं ॥ ५२ ॥ द्योतितस्य तथा तस्य पुराणस्य महात्मभिः । द्योतने वर्ततेऽत्यल्पो मादृशोऽप्यनुरूपतः ॥५३॥
१ बसलकं रूक्षं इत्यपि पाठः । २ कथयामि इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org