SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । प्रथमः सर्गः । ६ इंद्रचंद्रार्कजैनेंद्रव्यापिव्याकरणेक्षणाः । देवस्य देवसंघस्य न वंद्यते गिरः कथं ॥ ३१ ॥ वज्रसूरेर्विचारिण्यः सहेत्वोर्बंधमोक्षयोः । प्रमाणं धर्मशास्त्राणां प्रवक्तृणामिवोक्तयः ॥ ३२ ॥ महासेनस्य मधुरा शीलालंकारधारिणी । कथा न वर्णिता केन वनितेव सुलोचना ॥ ३३ ॥ पद्मोदयोद्यता प्रत्यहं परिवर्त्तिता । मूर्त्तिः काव्यमयी लोके खेवि खेः " प्रिया ॥ ३४ ॥ वरांगनेव सर्वांगैर्वरांगचरितार्थवाक् । कस्य नोत्पादयेद्गाढमनुरागं स्वगोचरं ।। ३५ । शांतस्यापि च वक्रोक्ती रम्योत्प्रेक्षाबलान्मनः । कस्य नोद्घाटितेऽन्वर्थे रमणीयेऽनुरंजयेत् ॥ ३६ ॥ योऽशेषोक्तिविशेषेषु विशेषः पद्यगद्ययोः । विशेषवादिता तस्य विशेषत्रयवादिनः ॥ ३७ ॥ अकूपारं यशो लोके प्रभाचंद्रोदयोज्ज्वलं । गुरोः कुमारसेनस्य विचरत्यजितात्मकं ॥ ३८ ॥ जितात्मपरलोकस्य कवीनां चक्रवर्तिनः । वीरसेनगुरोः कीर्तिर कलंकावभासते ॥ ३९॥ यामिताभ्युदये पार्श्वजिनेंद्रगुणसंस्तुतिः । स्वामिनो जिनसेनस्य कीर्त्तिः संकीर्तयत्यसौ ॥४०॥ वर्धमानपुराणोद्यदादित्यो क्तिगभस्तयः । प्रस्फुरंति गिरीशांतःस्फुटस्फटिकभित्तिषु ॥ ४१ ॥ ४ १ व्याकरणेशिनः इत्यपि पाठः । २ देववंयस्य देवनन्दस्य इत्यपि पाठौ । ३ गणधरदेवानां । ४ सुनेत्रा सुलोचना नानी कथा च । ५ कमलं पद्मपुराणं च । ६ रविषेणाचार्यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy