________________
हरिवंशपुराणं ।
प्रथमः सर्गः ।
येन सप्तदशं तीर्थ प्रावर्त्ति पृथुकीर्त्तिना । तस्मै कुंथुजिनेंद्राय नमः प्राक्चक्रवर्त्तिने ॥ १९ ॥ नमोऽष्टादशतीर्थाय प्राणिनामिष्टकारिणे । चक्रपाणिजिनाराय निरस्तदुरितारये ॥ २० ॥ तीर्थेनैकोनविंशेन स्थापितस्थिरकीर्त्तये । नमो मोहमहामलमाथि मल्लाय मल्लये ।। २१ ।। स्वं विंशतितमं तीर्थ कृत्वेशो मुनिसुव्रतः । अतारयत् भवाल्लोकं यस्तस्मै सततं नमः ॥ २२ ॥ नमये मुनिमुख्याय नमितांतर्वहिर्द्विषे । एकविंशस्य तीर्थस्य कृताभिव्यक्तये नमः || २३ ॥ भास्वते हरिवंशाद्रिश्रीशिखामणये नमः । द्वाविंशतीर्थसच्चक्रमयेऽरिष्टनेमये ॥ २४ ॥ धर्ता धरणनिर्धूतपर्वतोद्धरणासुरः । त्रयोविंशस्य तीर्थस्य पार्श्वो विजयतां विभुः ।। २५ ।। इत्यस्यामत्रसर्पिण्यां ये तृतीयचतुर्थयोः । कालयोः कृततीर्थास्ते जिना नः संतु सिद्धये ।। २६ ।। येऽतीतापेक्षयाऽनंताः संख्येया वर्तमानतः । अनंतानंतमानास्तु भाविकालव्यपेक्षया ॥ २७ ॥ तेऽर्हतः संतु नः सिद्धाः सूर्युपाध्याय साधवः । मंगलं गुरवः पंच सर्वे सर्वत्र सर्वदा ॥ २८ ॥ जीवसिद्धिविधायीह कृतयुक्त्यनुशासनं । वचः समंतमद्रस्य वीरस्येव विजृंभते ।। २९ ।। जगत्प्रसिद्धवावस्य वृषभस्येव निस्तुषाः । बोधयंति सतां बुद्धिं सिद्धसेनस्य सूक्तयः ॥ ३० ॥ १ जगत्त्रबोधसिद्धस्य इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org