________________
-
हरिवंशङ्कराणं ।
प्रथमः सर्गः । पंचमं संप्रपंचाथ तीर्थ वर्तयतिस्म यः । नमः सुमतये तस्मै नमः सुमतये सदा ॥ ७ ॥ ककुभोऽभासयद्यस्य जितपद्मप्रभा प्रभा । पद्मप्रभाय षष्ठाय तस्मै तीर्थकृते नमः ॥ ८ ॥ पस्तीर्थ स्वार्थसंपन्नः परार्थमुदपादयत् । सप्तमं तु नमस्तस्मै सुपार्वाय कृतात्मने ॥९॥ अष्टमस्येंद्रजुष्टस्य कर्वे तीर्थस्य तायिने । चंद्रप्रभजिनेंद्राय नमश्चंद्राभकीर्तये ॥ १०॥ देहदंतप्रभाक्रांतकुंदपुष्पत्विषे नमः । पुष्पदंताय तीर्थस्य नवमस्य विधायिने ॥११॥ शुचिशीतलतीर्थस्य जंतुसंतापनोदिनः । दशमस्य नमः कषे शीतलायापयाशिने ॥ १२ ॥ तीर्थ व्युच्छिन्नमुद्भाव्य भव्यानामाजवंजवं । चिच्छेदैकादशो योऽहस्तस्मै श्रीश्रेयसे नमः॥१३॥ कुतीर्थध्वांतमुद्धृय द्वादशं तीर्थमुज्ज्वलं । नमस्कृतवते भत्रे वासुपूज्यविवस्वते ॥ १४ ॥ विमलाय नमस्तस्मै यः कापर्थमलाविलं । त्रयोदशेन तीर्थेन चकार विमलं जगत् ॥ १५ ॥ तस्मै नमः कुसिद्धांततमोभेदनभास्वते । चतुर्दशस्य तीर्थस्य यः कोऽनंतजिज्जिनः ॥१६॥ अधर्मपथपातालपतदुद्धरणक्षमं । कत्रे पंचदशं तीर्थ धर्माय मुनये नमः ॥ १७ ॥ सृष्ट्र षोडशतीर्थस्य कृतनानेतिशांतये । चक्रेशाय जिनेशाय नमः शांताय शांतये ॥ १८ ॥ १ सविस्तारार्थ । २ दिशः । ३ पालकाय । ४ 'कषायमलाविलं' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org