________________
श्रीमजिनसेनाचार्यविरचितं
हरिवंशपुराणं ।
सिद्धं ध्रौव्यव्ययोत्पादलक्षणद्रव्यसाधनं । जैनं द्रव्याद्यपेक्षातः साधनाद्यथ शासनं ॥१॥ शुद्धज्ञानप्रकाशाय लोकालोकैकभानवे । नमः श्रीवर्द्धमानाय वर्द्धमानजिनेशिने ॥२॥ नमः सर्वविदे सर्वव्यवस्थानां विधायिने । कृतादिधर्मतीर्थाय वृषभाय स्वयंभुवे ॥ ३ ॥ येन तीर्थमभिव्यक्तं द्वितीयमजितायितं । अजिताय नमस्तस्मै जिनेशाय जितद्विषे ॥४॥ शं भवे वा विमुक्तौ वा भक्ता यत्रैव शंभवे । भेजुभव्या नमस्तस्मै तृतीयाय च संभवे ॥ ५ ॥ तीर्थ चतुर्थमर्थ्यर्थं यश्चकाराभिनंदनः । लोकाभिनंदनस्तस्मै जिनेंद्राय नमस्त्रिधा ॥६॥
१ ध्रौव्यव्ययोत्पादलक्षणं ग पुस्तके । २ कल्याणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org