________________
हरिवंशपुराण ।
एकोनविंशः सर्गः। कामदेवरतिप्रेक्षाकौतुकेन जगज्जनः । जिनायतनमागत्य प्रेक्ष्य तत्प्रतिमाद्वयं ॥३॥ संविधानकमाकर्ण्य तद् भाद्रकमृगध्वजं । बहवः प्रतिपयंते जिनधर्ममहर्दिवं ॥४॥ प्रसिद्धं च गृहं जैनं कामदेवगृहाख्यया । कौतुकागतलोकस्य जातं जिनमताप्तये ॥५॥ व्यतिक्रांतेषु बहुषु संजातपुरुषेष्विह । कामदेवाभिधःश्रेष्ठी कामदत्तान्वयेऽधुना ॥६॥ रूपयौवनसंपूर्णा पूर्णचंद्रसमानना । कन्या बंधुमती तस्य बंधुलोकातिनंदिनी ॥७॥ आदिष्टः पितृपृष्टेन दैवज्ञेन नरो वरः । तस्याः स्मरगृहद्वारमुद्घाट्य स्मरपूजनः ।।८॥ एवंविधवचः श्रुत्वा तद्गृहद्वारमेत्य सः । द्वात्रिंशदर्गलादुर्गमुद्याव्य सहसाविशत् ।।९॥ ततोऽभ्यर्च्य जिनेंद्रार्चाः सोऽर्चयत् सरतिस्मरं । चैत्यार्चनार्थमेतेन कामदेवेन वीक्षितः॥१०॥ तेन नैमित्तिकादेशसंवादमुदितात्मना । दत्ता बंधुमती तस्यै बंधुराधरबंधुरा ॥११॥ कामदः कामदेवेन कामदेवस्य कामिनः । जामाता कामदेवाभः कोऽपि दत्त इतीदृशी ॥१२॥ वार्ता प्रादुरभूत्पुर्यामतस्तस्यामितोऽमुतः । राज्ञांतःपुरपोरैश्च दृष्टः स्वैरमसौ ततः ।।१३॥ प्रियंगुसुंदरी तं च कथंचिदवलोक्य सा । अनुरक्ता तथा जाता विरक्ताभूद् यथाऽभसि ॥१४॥ रहस्यावाम चापृच्छच तां स्वां बंधुमती सखीं । पत्युबल्लभिकाऽसि त्वं वैग्ध्यं चाऽस्य कीदृशं॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org