SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३८९ एकोनत्रिंशः सर्गः । अश्वग्रीवो हतो युद्धे त्रिपिष्टेन तमस्तमः । विजयेन हरिश्मश्रुः प्राविशन्नरकं ततः ॥ ४४ ॥ चिरं संसृत्य जातोऽहं हयग्रीवो मृगध्वजः । हरिश्मश्रुः पुना राजन् भद्रको महिषोऽधुना ॥ ४५ ॥ पूर्वकोपानुबंधेन मयैव महिषो हतः । अकामनिजरातोऽभूल्लोहिताख्यो महासुरः || ४६ ॥ आगतो वंदनाभक्त्या देवभूत्याऽधुना युतः । आस्तेऽयमत्र जातेन मित्रभावेन भावितः ॥ ४७ ॥ क्रोधानुबंधमित्येकं सच्चाधीकरणक्षमं । विनियम्य महाराज ! शाम्यंतु शिवकांक्षिणः ॥ ४८ ॥ राजाद्याः प्राव्रजन् श्रुत्वा प्रशांतो महिषासुरः । निःशल्यो लौल्यमुज्झित्वा रराज ससभाजनः॥ ४९ ॥ गत्वा केवलिनं नत्वा ससुरासुरमानवाः । यथास्वं स्थानमन्ये च सिद्धस्थानं मृगध्वजः ॥ ५० ॥ महिषध्वजवृत्तं यः सततं शुद्धवृत्तमनसि धत्ते । स भजति दृष्टिविशुद्धिं जिनदृष्टपदार्थगोचरां भव्यजनः इतिअरिष्टनेोमपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ मृगध्वजमहिषोपाख्यानवर्णनो नाम अष्टाविंशः सर्गः । एकोनत्रिंशः सर्गः । कामदत्तो जिनागारपुरो लोकप्रवेशने । मृगध्वजस्य प्रतिमां स न्यधान्महिषस्य च ॥१॥ अत्रैव कामदेवस्य रतेश्च प्रतिमां व्यधात् । जिनागारे समस्तायाः प्रजायाः कौतुकाय सः ||२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy