SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ हरिवंश पुराणं । ३९१ एकोनत्रिंशः सर्गः । साऽस्यै मुग्धाऽवदत्तस्य विदग्धस्य विचेष्टितं । तथा यथा गता मोहं स्वसंवेद्य सुखासिकां ॥ १६ ॥ साभिमानमुदस्यतिं तस्या द्वास्थमजीगमत् । तत्समागममिच्छाशु स्त्रीवधं वेत्यनुत्तरं ||१७|| अन्याय्यमुभयं चैतदिति संचित्य यादवः । व्याजेन केनचिद्दक्षः कालक्षेपमयोजयत् ||१८|| लब्धप्रत्याशया कन्या शौरिविन्यस्तधीरसौ । शयने निशि संपूर्ण मन्यमाना मनोरथं ॥ १९ ॥ बंधुमत्युपगूढांगं सुप्तमंधकवृष्णिजं । ज्वलनप्रभनागश्री रात्रौ दिव्या व्यबोधयत् ॥२०॥ विबुद्धो देहभूषाभाभासिताखिलदिङ्मुखां । तां दृष्ट्वा नागचिन्हां ह्रीं केयमत्रेत्यचितयत् ॥२१॥ आहूत तया धीरः प्रियालापविदग्धया । अशोकवनितां नीत्वा नीत्याऽभाषि विनीतया ॥ २२ ॥ शृणु त्वं धीर ! विश्रब्धो ममागमनकारणं । तप्येते श्रवणौ येन तवामृतरसेन वा || २३ || आसीदमोघविक्रांतिः समाक्रांतारिमंडलः । अमोघदर्शनो नाम्ना नरेंद्रचंदने वने ||२४|| कांता चारुमतिश्चारुचारुचंद्रोऽस्य देहजः । नीतिपौरुषसंपन्न नवयौवनभूषितः ||२५|| रंगसेना च गणिका कलागुणगणान्विता । सुता कामपताकाऽस्याः कामस्येव पताकिका ||२६|| प्राविशद् यागदीक्षायै क्षितिपो धर्ममोहितः । तापसः कौशिकाद्याश्च तदायाता जटाधराः ||२७|| नृत्यंत्या च नृपादेशात् तया कामपताकया । व्यक्तं कामपताकात्वं हरंत्या हृदयं नृणां ॥ २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy