________________
हरिवंशपुराणं ।
३३२
द्वाविंशतितमः सर्गः । रथैः केचिद्गजैः केचित् वाजियुग्यादिभिः परे। नियोति स्त्रीजनाः पुर्या यात्रायां चित्रभूषणा॥६॥ शौरिरश्वरथारूढः सार्दू गांधर्वसेनया । जिनं पूजयितुं पुर्या निर्यातोऽसौ सपर्यया ॥ ७ ॥ भटमंडलमध्यस्थो गच्छन् जिनगृहागतः । मातंगकन्यकावेषां नृत्यत्कन्यां निरक्षत ॥८॥ नीलोत्पलदलश्यामां वृत्तोत्तुंगपयोधरां । भूषाविद्युल्लताश्लिष्टां योषां वा प्रावृषः श्रियं ॥ ९ ॥ सुबंधूकाधरच्छायां सुपद्मपदपाणिकां । पुंडरीकदृशं दृश्यां मूतमिव शरच्छ्यिं ॥ १० ॥ श्रियं व्हियं धृति बुद्धिं लक्ष्मीं चापि सरस्वतीं । स्वयं जिनेंद्रभक्तेव नृत्यंतीमतिरूपिणीं ॥१९॥ स्थितो रंगविभागेत्र गायकः सपरिग्रहः । मृदंगी पणवी चैव दर्दरी कंसवादकः ॥ १२ ॥ वैपंची वैणिकश्चैष कुतुपः परिभाषितः । उत्तमाधममध्यामिः स्थितः प्रकृतिभिर्युतः॥ १३ ॥ कुतुपेषु यथास्थानं सुप्रयुक्तं प्रयोक्तृभिः । अलातचक्रप्रतिमं गानं वाद्यं च नाटकं ॥ १४ ॥ रसाभिनयभावानामभिव्यक्ति सुनर्तकी । सा कुर्वाणा रथस्थेन शौरिणैक्षि सजानिना ॥१५॥ रूपविज्ञानपाशेन तं बबंधाशु सा स तां । बंधव्यबंधकत्वं तावन्योन्यस्प तदापतुः ॥ १६ ॥ ततो गांधर्वसेनाम्भूदीयाकुंचितलोचना। विपक्षस्य हि सांनिध्यमक्षिसंकोचकारणं ॥ १७ ॥ सापायमत्र वित्रासकोपायं च चिरस्थितं । मन्वाना सारथिं साह धन्विनो रविनः प्रिया॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org