SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३३१ द्वाविंशतितमः सर्गः । इत्यन्योन्यस्वरूपज्ञा रूपविज्ञानसागराः । त्रिवर्गानुभवप्रीता चारुदत्तादयः स्थिताः ॥ १८५ ॥ क्षणार्थोऽपि पयोधिमप्यधिगतः कूपावतीर्णोऽप्यतो दुर्लघ्येऽपि च संचरन् गिरितटे द्वीपांतरे वा पुमान्, लक्ष्मी धर्मसखः प्रयाति निखिलां पापव्यपायाद्यत - स्त जिनबोधितं बुधजनाश्चिन्वंतु चिंतामणि ॥ ९८६ ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृता चारुदत्तचरितवर्णनो नाम एकविंशतितमः सर्गः । द्वाविंशतितमः सर्गः चंपायां रममाणस्य सह गांधर्वसेनया । वसुदेवस्य संप्राप्तः फाल्गुनाष्टदिनोत्सवः ॥ १ ॥ देवा नंदीश्वरं द्वीपं खेचरा मंदरादिकं । यांति वंदारवः स्थानमानंदं दधतस्तदा || २ || जन्मनिष्क्रमण ज्ञाननिर्वाणप्राप्तितोऽर्हतः । वासुपूज्यस्य पूज्यां तां चंपां प्रापुः स्फुरद्गृहां ॥ ३ ॥ आगच्छति तदा कर्तु जिनेंद्रमहिमोत्सवं । सर्वतः पुत्रदाराद्यैर्भूचराश्च नभश्वराः || ४ | चंपावासी जनः सर्वो निश्चक्राम सराजकः । प्रतिमां वासुपूज्यस्य पूज्यां पूजयितुं वहिः ।। ५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy