________________
हरिवंशपुराणं।
एकविंशतितमः सर्गः। मित्रकार्यसमुद्युक्तौ मित्रदेवौ मया स्मृतौ । स्मरणादेव संप्राप्तौ निधिहस्तौ ममांतिकं ॥१७२ ।। चारुहंसविमानेन साकं गांधर्वसेनया । आनीय मित्रदेवी मां भूत्या विस्मयनीयया ॥१७३।। सुव्यवस्थाप्य चंपायामक्षयनिधिभिः सह । नत्वा देवौ गतौ स्वर्ग खेचरौ च निजास्पदं ॥१७४।। मातुलं मातरं पत्नी बंधुवर्ग च सादरं । दृष्ट्वा तुष्टमति प्राप्तं प्राप्तोऽहं सुखितां परं ॥ १७५ ॥ तां शुश्रूषाकरी श्वश्रू मदणुव्रतसंगतां । श्रुत्वा वसंतसेनां च प्रीतः स्वीकृतवानहं ॥ १७६ ॥ दत्तं किमिच्छकं दानं दीनानाथांगितर्पणं । विश्वस्मै बंधुलोकाय दीयते स्म यथेप्सितं ॥१७७॥ एष यादव! संबंधः कथितस्ते मयाखिलः । खेचरेंद्रकमार्या मे विभवस्य च संमवः ॥१७८॥ यदर्थ रक्षिता कन्या स त्वं प्राप्तोऽसि धन्यया । कृतकृत्य कृतश्चाहं भवता यदुनंदन! ॥१७९ ॥ प्रत्यासनापवर्गस्य मम स्वर्गस्तपस्विभिः । तपस्थस्योदितश्चेतो यतिष्ये च तपस्यहं ।। १८०॥ इति गांधर्वसेनाया श्रुत्वा संबंधमादितः। चारुदत्तस्य चोत्साहं तुष्टस्तुष्टाव यादवः ॥ १८१ ॥ अहो चेष्टितमार्यस्य महौदार्यसमन्वितं । अहो पुण्यवलं गण्यमनन्यपुरुषोचितं ॥ १८२॥ न हि पौरुषमीक्षं विना दैवबलं तथा । ईदृक्षान् विभवान् शक्या प्राप्तुं ससुरखेचराः॥१८३॥ श्रुत्वेति चारुदत्तीयमात्मीयं च विचेष्टितं । तस्मै गांधर्वसेनादिपर्यतं यादवोऽवदत् ॥ १८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org