________________
हरिवंशपुराणं ।
३२९ ।
एकविंशतितमः सर्गः। इत्युक्त्वा महतीमृद्धिं मुनिखेचरसंनिधौ । संप्रदर्य तदा देवी देवदेवीविमानकैः ॥१५९ ॥ वस्त्रैरनिविशोध्या भूषामाल्यविलेपनैः । भूषयित्वा ससत्कारमभाषेता सुभूषणैः॥ १६० ॥ आदेशो दीयतां स्वामिन् कर्तव्ये समुपस्थिते । चंपां किं प्राप्यसेऽद्यैव सद्यो भूयर्थसंगतः।।१६।। इत्युक्तेन मया प्रोक्तं व्रजतो निजमास्पदं । स्मरणानंतर देवौ पुनरागम्यतामिति ॥ १६२ ॥ यथादेशमिति प्रोच्य प्रांजलि प्रणिपत्य तौ । मुनि मां च समापृच्छय प्रयातौ त्रिदिवं निज॥१६३॥ अहं च मुनिमानम्य विमानेन विहायसा । खेचराभ्यां सहायातःप्राविशं शिवमंदिरं॥ १६४ ॥ तत्र स्वर्ग इवातिष्ठन् सुखेन खचरार्चितः। जन्मान्यदिव च प्राप्तः श्रृण्वन् निजयशोजनात् ॥१६५॥ अन्यदा मापुत्रास्ते मयाऽमा संप्रधारणं । चक्रुगांधर्वसेनाख्या कुमारी संप्रदय मे ॥ १६६ ॥ चारुदत्त ! श्रृणु श्रीमानेकदावधि चक्षुषं । राजेति पृष्टवान् भर्ता के मे दुहितुरीक्ष्यते ॥ १६७ ॥ सोऽवोचच्चारुदत्तस्य गृहे गांधर्वपंडितः । जेताऽस्या भविता तेऽसौ कन्याया यादवः पतिः॥१६॥ इत्याकर्ण्य तदा तेन राज्ञा प्रव्रजताऽपि च । स्थिरीकृतमिदं कार्य प्रमाणं त्वं ततोऽसि नः ॥१६९॥ दिष्टयाभ्युपगतं तत्तु बंधुकार्य मया ततः । धाच्यादिपरिवाराद्या कन्येयं मे समर्पिता ।। १७०॥ कन्याया भ्रातरौ नानारत्नस्वर्णादिसंपदा । वृतौ खेचरवाहिन्या सज्जौ चंपागमं प्रति ॥१७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org