________________
हरिवंश पुराणं ।
३२८
एकविंशतितमः सर्गः ।
स मातृपितृसेवाख्यं पिप्पलादः स्वयं कृतं । कर्तुं प्रवर्त्य तौ निन्ये समन्युर्मृत्युगोचरं ॥ १४६ ॥ पिप्पलादस्य शिष्योऽहं जडग्रंथेन वाग्वलिः । तद्दर्शनं समर्थ्यागान्नरकं घोरवेदनं ॥ १४७ ॥ ततो निर्गत्य जातोऽस्मि षड्वारानजपतिकः । हुतश्च यज्ञविद्याज्ञैर्यज्ञे पर्वतदर्शिते || १४८ ।। सप्तमेऽपि च वारेऽहं देशे टंकणकेऽभवत् । अज एव निजैः पापैः प्रेरितः प्राणिघातजैः ॥ १४९ ॥ चारुदर्शन मे जैनो धर्मोऽदर्शि निरंजनः । दत्तः पंचनमस्कारो मरणे करुणावता ।। १५० ।। जातोऽहं जिनधर्मेण सौधर्मे विबुधोत्तमः । चारुदत्तो गुरुस्तेन प्रथमो नमितो मया ।। १५१ ।। इत्युक्त्वा निरते तस्मिन्नितरोऽपि सुरोऽब्रवीत् । श्रूयतां चारुदत्तो मे यथाऽभूद्धर्मदेशकः ।। १५२ ।। रसकूपे परिव्राजा पातितः पतिताय मे । सद्धर्मं वणिजो वोचच्चारुदत्तः कृपापरः ॥ १५३ ॥
गृहीतधर्मोऽहं सौधर्मेऽभवमुतमः । सुरस्तेन गुरुः पूर्व चारुदतो नतो मया ॥ १५४ ॥ पापकूपे निमग्नेभ्यो धर्महस्तावलंबनं । ददता कः समो लोके संसारोचारणं नृणां ।। १५५ ।। अक्षरस्यापि चैकस्य पदार्थस्य पदस्य वा । दातारं विस्मरन् पापी किं पुनधर्मदेशिनं ।। १५६ ॥ पूर्वं कृतोपकारस्य पुंसः प्रत्युपकारतः । कृतित्वमुपकार्यस्य नान्यथेति विदो विदुः ॥ १५७ ॥ तत्कृतौ शक्तिवैकल्ये कुलीनः स कथं न यः । सद्भावं दर्शयेत्तस्मै स्वाधीनं विगतस्मयः॥ १५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org