________________
हरिवंशपुराणं ।
३२७
एकविंशतितमः सर्गः । कुमार्यावेव वैराग्यात् परिव्राजकतां श्रिते । सुप्रसिद्धिं गते भूमौ जित्वा वादेषु वादिनः ॥१३३॥ याज्ञवल्क्य इति ख्यातः परिव्राट् पर्यटन् धरां । वाराणसीं तदायासीत्तज्जिगीषामनीषया ॥ १३४ ॥ सुलसा जल्पकालेऽस्य सावलेपा सभांतरे । स्यां शुश्रूषाकरी जेतुरिति संगरमग्रहीत् ॥ १३५ ॥ पूर्वपक्षमुपन्यस्तं तया न्यायविदां पुरः । संदृष्य याज्ञवल्क्यस्तं स स्वपक्षमतिष्ठत् ।। १३६ ।। याज्ञवल्क्यो वृतो वादे सुपराजितया तया । विषयामिषलुब्धस्तां सस्मरां समरीरमत् ॥ १३७ ॥ सुलसायाज्ञवल्क्यौ तौ जनयित्वा शुभं शिशुं । अश्वत्थतरुमूलस्थं कृत्वा यातौ कृपाच्युतौ ॥ १३८ ॥ तत्रोत्तानशयं भद्रा दृष्ट्रा स्वच्छ (त्थ) फलादिनं । पिप्पलादाभिधानेन व्याहूयैनमवीवृधत् ॥ १३९ ॥ पारगः सर्वशास्त्राणामेकदा ऽपृच्छदित्यसौ । मातः ! किमभिधानो मे पिता जीवति वा न वा । १४०॥ तयोक्तं ते पिता पुत्र ! याज्ञवल्क्यः कनीयसी । मम तेन जिता वादे सुलसा जननी तव ॥ १४१ ॥ जातमात्रमपत्राणं त्वां तौ पुत्र ! तरोरधः । मुक्त्वा मुक्तकृपौ पापौ यातावद्यापि जीवतः ॥ स्तनैरन्यस्त्रियाः क्लेशान्मया समभिवर्द्धितः । कर्म पूर्व कृतं पुत्र ! पितरौ तु स्मरातुरौ ॥ इत्याकर्ण्य तदा तस्याः कर्णदाहकरं वचः । तद्वार्त्ताकर्णनोत्कर्णो लब्धवर्णो रुषा स्थितः ॥ लब्धवार्त्तो रुषा गत्वा स जित्वा जनकं ततः । सुश्रूषां च तयोश्चक्रे मिथ्याविनयपूर्वकं ।।
१४२ ॥
१४३ ॥
१४४ ॥
१४५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org