________________
हरिवंशपुराण। ।
३२६
एकविंशतितमः सर्गः।। भार्या विजयसेना मे नानाऽन्यासीन्मनोरमा । ख्याता गांधर्वसेनाख्या प्रथमायामभूत्सुता॥१२०॥ इतरस्यामभूत्पुत्रो ज्येष्ठो सिंहयशःश्रुतिः । वाराहग्रीवनामान्यो विनयादिगुणाकरः ॥ १२१॥ राज्ये तौ यौवराज्ये च स्थापयित्वा यथाक्रमं । गुरोरेव गुरोरते प्रव्रज्यां श्रितवानहं ॥१२२ ॥ कुंभकंटकनामायं द्वीपः सागरवेष्टितः । गिरिः कर्कोटकथात्र चारुदत्तागतः कथं ॥ १२३ ॥ इत्युक्ते यतिनाद्यंतां सुखदुःखविमिश्रितां । कथं कथमहं तस्मै कथामकथनिजां ॥ १२४ ॥ तदा विद्याधरौ द्वौ तं मुनि पुत्रौ नभस्तलात् । अवतीर्य ववंदाते वंदनीयमनिंदितौ ॥ १२५ ॥ कुमारौ!चारुदत्तोऽयं भ्राता यो वां मयोदितः। इत्युक्त मां परिष्वज्य स्थितायुक्त्वा बहुप्रियं ॥१२६॥ तावच द्वौ विमानाबादवतीर्य सुरौ पुरा । मां प्रणम्य मुनि पश्चान्नत्वासीनौ ममाग्रतः ॥१२७॥ अक्रमस्य तदा हेतुं खेचरौ पर्यपृच्छतां । देवावृषिमतिक्रम्य प्राग्नतौ श्रावकं कुतः ॥ १२८ ॥ त्रिदशावूचतुर्हेतुं जिनधर्मोपदेशकः । चारुदत्तो गुरुः साक्षादावयोरिति बुध्यतां ॥ १२९ ॥ तत्कथं कथमित्युक्ते छागपूर्वःसुरोऽभणीत् । श्रूयतां मे कथा तावत् कथ्यते खेचरौ! स्फुटं ॥१३०॥ वाराणस्यां पुराणार्यवेदव्याकरणार्थवित् । ब्राह्मणः सोमशर्माऽसीत्सौमिल्ला तस्य भामिनी ॥१३१॥ तयोर्दुहितरौ भद्रा सुलसा च सुयौवने । वेदव्याकरणादीनां शास्त्राणां पारगे परे ॥ १३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org