________________
हरिवंशपुराण।
३२५
एकविंशतितमः सर्गः। यावन मार्यते तावत्पूर्वमेव प्रतीकृतः । मार्यमाणाय चादायि तस्मै पंचनमस्कृतिः ॥ १०७ ॥ मस्त्रां कृत्वा सशस्त्रां मामंतस्तस्य निधाय सः। प्रविश्य स्वमन्यस्यां शस्त्रहस्तो व्यवस्थितः।।१०८॥ भारुडैश्चंडतुंडाभ्यां भस्ने नीते विहायसा । भत्रा काणेन मेऽन्यत्र नीत्वा क्षिप्ता क्षितौ ततः॥१०९॥ वेगाद्विपाद्य तां भखां निर्गतःस्वर्गसंनिभं । रत्नरश्मिभिरुद्दीसमपश्यं द्वीपमायतं ॥ ११ ॥ पश्यता च दिशो रम्याः पर्वताये जिनालयः। प्रेक्षितो मरुद्धतपताकाभिरिवानटत् ॥ १११ ॥ तत्र तापनयोगस्थश्चारणः श्रमणोंतिके । वीक्षितो वीक्ष्य यं प्राप प्रागप्राप्तं परं सुखं ॥११२॥ ततः पर्वतमारुह्य त्रिःपरीत्य जिनालयं । वंदिता जिनचंद्राणां कृत्रिमाः प्रतिमा मया ॥११३॥ योगस्थो योगभयाऽसौ वंदितश्च मुनिमया । समासनियमश्चाह दत्त्वाऽऽसीनस्तदाशिषं ॥११४। कुशली चारुदत्तात्र कुतः स्वम इवागमः । प्राकृतस्य यथा पुंसः सहायरहितस्य ते ॥११५ ॥ कुशलं ना! युष्माकं प्रसादादिति वादिना । नत्वा विस्मितचिन मयाऽपृच्छचत सन्मुनिः।११६॥ प्रत्यभिज्ञा कुतो नाथ तव मद्विषया च ते । अपूर्वदर्शनं मन्ये मान्यमान्यस्य पावनं ॥ ११७ ॥ इति पृष्टेन तेनोक्तं चंपायां यस्तदा द्विषा। खेचरोऽमितगत्याख्यः कीलितो मोचितस्त्वया॥११८॥ राज्ये संस्थाप्य मां प्राज्ये सम्यग्दर्शनभावितं । गुरोहिरण्यकुंभस्य समीपे प्रावजत् पिता ॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org