________________
हरिवंशपुराणं।
३२४
. एकविंशतितमः सर्गः। परेधुश्च रसं पीत्वा गच्छंत्याः पुच्छमाश्वहं । गोधाया धृतवान् दोामाकृष्टश्च वहिस्तया॥१४॥ तटीपाटितगात्रोऽहं बहिर्मुक्तोऽतिमूञ्छितः । विबुद्धश्च पुनर्जन्मजातमिति व्यचिंतयम् ॥ ९५ ॥ शनैरुत्थाय गच्छंतमन्वधावद् यमोपमः । महिषो वनयध्ये मां प्रविष्टोऽहं गुहां ततः ॥ ९६ ॥ प्रसुप्तोऽजगरस्तत्र मयाक्रांतः समुत्थितः । अभिधावंतमत्युग्रं सोऽगृहीन्महिषं मुखे ॥९७ ॥ यावच्चोद्धतयोयुद्धं वर्तते विषमं तयोः । तावत् तत्पृष्ठमाक्रम्य निर्गतोऽहमतिद्भुतं ॥ ९८ ।। विनिसृत्य महारण्याद् प्रत्यंतग्राममाप्नुयां । काकतालीयतस्तत्र रुद्रदत्तं ददर्श तं ॥ ९९ ॥ क्षुत्पिपासार्तिहरणं कृत्वाऽसौ मे ततोऽब्रवीत् । चारुदत विषादं मा कास्त्विं श्रृणु मे वचः॥१०॥ सुवर्णद्वीपमाविश्य समुपायं धनं महत् । प्रत्येष्यावः पुनर्यन रक्ष्यते कुलसंततिः ॥ १०१ ॥ एकवाक्यतया तेन यातौ चैरावती नदीं । उत्तीर्य गिरिकूटं च गिरिं वेत्रवनं वनं ॥ १०२ ॥ टंकणं देशमासाद्य क्रीत्वाऽजौ गतिदक्षिणौ । गतौ वामपथेनातिविषमेण शनैः शनैः ॥ १०३ ॥ अतिलंध्य समां प्राह रुद्रदचोऽन्वितादरः । चारुदत्त! पशून हत्वा कृत्वा भवाप्रवेशनं ॥१०४॥ आश्वहे तत्र नौ द्वीपे भारंडाश्चंडतुंडकाः। गृहीत्वाऽऽमिषलोभेन पक्षिणः प्रक्षिपंति हि ॥१०५॥ निषिद्धोऽपि बधाद्रौद्रो रुद्रदत्तोऽवधीनिजं । अजं मदीयमप्यंतं निनाय विनफ्युतः ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org