________________
हरिवंशपुराणं ।
३२३
एकविंशतितमः सर्गः।
तेनाहं शांतवेषेण श्रांतो विश्रांतिमादृतः । रसलोभेन च विश्वास्य कांतारं च प्रवेशितः ॥ ८१ ॥ मुग्धः सदुग्धिको रज्ज्वा परिव्राजावतारितः । प्रविष्टोऽहं बिलं भीमं प्रेरितो रसतृष्णया ॥ ८२ ॥ रसाया मूलमाशाया रज्ज्वारूढो दृढासनः । आददानो रसं पुंसा निषिद्धस्तत्र केनचित् ॥ ८३ ॥ मा स्प्राक्षीस्त्वं रसं भद्र! रौद्रं यदि जिजीविषुः । स्पृशेत चेन्न जीवंतं मुंचति क्षयरोगवत् ॥ ८४ ॥ ततश्चकितचित्तोऽहमवोचं तमिति द्रुतं । त्वं भोः कः केन वा क्षिप्त इहेत्युक्तो जगाद सः ॥ ८५ ॥ उज्जयिन्या वणिग्भिन्नपात्रोऽपात्रेण लिंगिना । रसमादाय निक्षिप्तो रसराक्षसवक्षसि ।। ८६ ।। स्वगस्थिशेषभूतोऽहं रसयुक्तो व्यवस्थितः । ममातो निर्गमो भद्र! मृतस्यैव न जीवतः ॥ ८७ ॥ संपृष्टस्तेन भोः कस्त्वमित्यवोचमहं पुनः । चारुदत्तो वणिक् क्षिप्तः परिव्राजा तवारिणा ||८८|| प्रियवादीति विश्वस्य वकवृत्तेर्दुरात्मनः । अधोऽधोऽनुचरो मुग्धः पततीति किमद्भुतं ॥ ८९ ॥ पूरयित्वा रसं तेन रज्जुमारोप्य चालितं । एकामाकृष्य कृत्वैकां कृतार्थः स खलो गतः ॥९०॥ पतितस्य तटे तेन पुंसा निर्गमनाय मे । उपायः साधुनाऽवाचि ततश्चेति कृपावता ।। ९१ ॥ गोधैका रसपानाय साधोऽत्रावतरिष्यति । सृत्वा शीघ्रं हि तत्पुच्छं धृत्वा निर्गच्छ निश्चयं ॥ ९२ ॥ तदेत्युक्तवते धर्म तस्मै सम्यक्त्वपूर्वकं । सप्रपंचमुवाचाहं सहपंचनमस्कृतिं ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org