________________
हरिवंशपुराणं।
- ३२२
एकविंशतितमः सर्गः। कौमारंपतिमुज्झित्वा चारुदत्तं चिरोषितं । कुबेरेणापि मे कार्य नेश्वरेण परेण किं ॥ ६८ ॥ प्राणैरपि हि मे नाथश्चारुदत्तो वियोजकैः । मैवंवोचः पुनर्मातर्यदि मे जीवितं प्रियं ॥६९ ॥ पूरितं कोटिशो द्युम्नैर्गृहं ते तगृहागतैः । तथापि तज्जिहासाऽभूदकृतज्ञा हि योषितः ॥ ७० ॥ कलापारमितस्यांब रूपातिशययोगिनः । सद्धर्मदर्शिनो मेऽस्य स्यात्यागस्त्यागिनः कुतः ॥७१॥ अन्यासक्तामिति ज्ञात्वा कृत्वा तदनुवर्तनं । चिंतयंती स्थितोपायमावयोः सा वियोजने ॥७२॥ आसने शयने स्नाने भोजने चापि युक्तयोः। योगेनायुज्य नौनिद्रामहं रात्रौ वहिः कृतः॥७३॥ निद्रापाये गृहं गत्वा भर्तृनिःक्रांतदुःखिनी । अपश्यं मातरं दुःखी भार्यां च कृतरोदनीं ॥७४ ॥ ततः कृततदाश्वासः प्रियालंकारहस्तकः । उशीरावर्त्तमायातो मातुलेन वणिज्यया ॥ ७५ ॥ क्रीत्वा तत्र च कार्पासं ताम्रलिप्तं प्रगच्छतः । दैवकालनियोगेन सोऽप्यदाहि दवाग्निना ॥७६॥ मुक्त्वा मातुलमश्वेन पूर्वाशां गच्छतो मृतः। सोऽपि पद्भ्यां ततो यातः प्रियंगु नगरं श्रमी।।७७॥ सुरेंद्रदत्तनाम्नाऽहं पितृमित्रेण वीक्षितः । विश्रांतः कतिचित्तत्र दिनानि सुखसंगतः ॥७८॥ समुद्रयात्रया यातः षट्कृत्वो भिन्ननौस्थितिः । अष्टकोटीश्वरवाहमभवं भिन्नपात्रकः ॥ ७९ ॥ आसाद्य फलकं कृच्छादुतीय मकरालयं । प्राप्तो राजपुरं तत्र परिव्राजकमैक्षिषि ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org