________________
हरिवंशपुराणं ।
३२१
एकविंशतितमः सर्गः ।
1
द्यूते तत्रोत्तरीयं च रौद्रदत्तं जितं तया । ततोऽहमुद्यतो रंतुमपसार्य तमेतया ॥ ५५ ॥ वसंतसेनया द्यूतादपसार्य स्वमातरं । कृता दुरोदरक्रीडा मया सह विदग्धया ।। ५६ ।। आसक्तश्च चिरं तत्र पायितो ऽतिपिपासितः । मतिमोहनयोगेन वासितं शिशिरोदकं ।। ५७ ।। अतिविस्रंभतस्तस्यामनुरागे ममोद्गते । करग्रहणमेतस्या जनन्या कारितोऽस्म्यहं ।। ५८ ।। वसता तत्र वर्षाणि मया द्वादश विस्मृतौ । पितरौ मित्रवत्यामा कार्येष्वन्येषु का कथा ॥ ५९ ॥ वृद्धसेवाविवृद्धा मे गुणास्तरुणिसेवया । दोषैरुपचितैश्छन्नाः सज्जना इव दुर्जनैः ॥ ६० ॥ स्वर्णषोडशकोटीषु प्रविष्टासु निजं गृहं । दृष्ट्वा कालिंगसेनांते मित्रवत्या विभूषणं ॥ ६१ ॥ जगौ वसंतसेनां तामेकांते मंत्र कोविदा | दुहितर्हितमाभाषे कर्णे मद्वचनं कुरु ॥ ६२ ॥ गुरुवाक्यामृतं मंत्रं सदाभ्यस्यति यो जनः । तमनर्थग्रहा दूरात् ढौकंते न कदाचन ॥ ६३ ॥ जानास्येव जघन्यातो वृत्तिर्यद्विनवान् प्रियः । हेयः पीलितसारः स्यादिक्ष्वलक्तकवन्नरः ||६४|| तनुलग्नमलंकारं चारुदत्तस्य भार्यया । प्रेषितं प्रेष्यकारुण्याद् व्यसर्जयमहं पुनः ॥ ६५ ॥ तदस्य पीतसारस्य कुरु तावद्विमोक्षणं । सारवंतं नरं त्वन्यं नवेक्षुमिव भक्षय ॥ ६६ ॥ शंकुनेव ततः कर्णे ताडिता साऽतिपीडिता । जगाद मातरं मातः किमिदं गदितं त्वया ॥ ६७ ॥
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org