SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराण। ३२० एकविंशतितमः सर्गः। कन्याऽसौ नृत्यगीतादिकलाकौशलशालिनी । सौरूप्यस्य परा कोटियौवनस्य नवोन्नतिः॥४२॥ नृत्यारंभेऽन्यदा तस्या रुद्रदत्तेन संगतः। ससाहित्यजनाकीर्णे स्थितोऽहं नृत्यमंडपे ॥४३॥ सूचिनाटकसूच्यग्रे सा जातिमुकुलांजलिं | व्यकिरत् प्रविकाशं च प्राप्तेषु मुकुलेषु च ॥४४॥ सुष्टुंकारे प्रयुक्तेऽस्याः कश्चित्साहित्यवार्तिभिः । मया विकाशकालज्ञमालाकारस्य योजिते ॥४५॥ तस्या दत्ते बुधैस्तस्मिन्नंगुष्ठेऽभिनये कृते । नापितस्य मया दत्ते नखमंडलशोधिनः ॥४६॥ कुक्षोमक्षिकायाश्च व्युदासाभिनये कृते । पूर्ववत् तैः कृते प्राप्तगोपालस्य मया पुनः ॥ ४७ ॥ रसभावविवेकस्य व्यंजिका सा च संप्रति । सुष्ठुकारमदात्प्रीता स्वांगुलिस्फोटकारिणी ॥४८॥ ततः सर्वस्य लोकस्य पश्यतो मम संमुखं । ननाट नाटकं हारि साऽनुरागवशा च सा ॥ ४९ ॥ उपसंहतनृत्या च निजप्रासादवर्गिनी । स्वमात्रेऽकथयद्भावमिति साकल्यकातुरा ॥ ५० ॥ इह जन्मनि मे मातश्चारुदत्तात्परस्य न । संकल्पस्तेन तेनारं मां योजयितुमर्हसि ॥५१॥ माता ज्ञात्वा सुताचित्तं चारुदत्तस्य योजने । दानमानादिनाभ्यर्च्य रुद्रदत्तमपोजयत् ।। ५२ ।। तेन चाहमुपायेन पृष्ठतश्चाग्रतः पथि । गजौ प्रयोज्य तद्वेश्यावेश्म जातु प्रवेशितः ॥ ५३॥ कृतसंकेतया पूर्व कृतः कालिंगसेनया । स्वागतासनदानाद्यैरुपचारोत्र चावयोः ॥५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy