________________
हरिवंशपुराणं।
३१९
एकाविंशतितमः सर्गः। तदेष योज्यतामद्य जनः कर्मणि वांछिते । वयोज्येष्ठोऽपि तं कुर्वे प्राणदस्यानुवर्णनं ॥२९॥ भवतोद्भतशल्यं मां जीवंतमिह जन्मनि । कृतप्रत्युपकारं ते प्रतीयुद्धतशल्यकं ॥३०॥ इति प्रियंवदोऽवादि स्त्रीसखः खेचरो मया । कृतं कृतं हि मे सर्व त्वया सद्भावदर्शिना ॥३१॥ शुद्धं दर्शयता भावं वद किं न कृतं त्वया । तदेवोपकृतं पुंसां यद् सद्भावदर्शनं ॥३२॥ पुण्यवान् ननु पूज्योऽहं यत्तवानघ दर्शनं । जातं मे सुलभं लोके सामान्यनरदुर्लभं ॥३३॥ सर्वसाधारणं नृणामवस्थांतरवर्धनं । त्वं विषण्णमना मा भूः कीलितोऽस्मीति वैरिणा ॥३४॥ उपकारमतिस्तात ! यदि मां प्रति ते ततः । मय्यपत्यमतिः कार्या त्वया नित्यमितीरिते ॥३५॥ वाढमित्यभिधायांसो नाम गोत्रं च मे ततः । पृष्ट्वाभिधाय मां पृच्छय स्त्रीसखः स खमुद्ययौ ॥३६॥ प्रविष्टाया वयं चंपां विद्याधरकथारताः। दृष्टश्रुतानुभूतं हि नवं धृतिकरं नृणां ॥३७॥ रूढा च यौवनस्थेन नाम्ना मित्रवती मया । सर्वार्थस्य सुमित्राया मातुलस्य तनूभवा ॥३८॥ शास्त्रव्यसनिनो मेऽभून्नात्मस्त्रीविषयेऽपि धीः । शास्त्रव्यसनमन्येषां व्यसनानां हि वाधकं ॥३९॥ रुद्रदत्तः पितृव्यो मे बहुव्यसनशक्तधीः । सन्मान्य योजितो मात्रा कामुकव्यवहारवित् ॥४०॥ आसीत्कलिंगसेनात्र गणिका गणनायिका । सुता वसंतसेनाऽस्या वसंतश्रीरिव श्रिया ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org