________________
हरिवंशपुराणं।
३१८
एकविंशतितमः सर्गः। रतिव्यतिकरम्लानपुष्पपल्लवतल्पतः । अल्पमंतरमन्विष्य सुमहागहनं वनं ॥१६॥ दृष्टो विद्याधरो वृक्षे कीलितो लोहकीलकैः । पार्श्वे खेटकखड़ाग्रव्यग्ररक्तनिरीक्षणः ॥१७॥ तिस्रः खेटकसंगूढा गृहीत्वौषधिवर्तिकाः । चालनोत्कीलनोन्मूलव्रणरोहा कृता मया ॥१८॥ निःकीलो निव्रणश्चासौ गृहीत्वा खड़ खेटको । निरुत्तरः खमुत्पत्य दधावोचरया दिशा ॥१९॥ प्रलापानुपदं गत्वा द्वियमाणां द्विषा प्रियां । विमोच्यादाय तामेत्य मामवीचन्महादरः ॥२०॥ भद्र ! दत्ता यथा प्राणा म्रियमाणाय मे त्वया । तथैव दीयतामाज्ञां वद किं विदधामि ते ॥२१॥ वैताट्येऽस्ति नृपः श्रेण्या दक्षिणस्यां हि दक्षिणः । महेंद्रविक्रमो नाम्ना नगरे शिवमंदिरे ॥२२॥ तस्यामितगतिर्नाम्ना तनयोऽहमतिप्रियः । मित्रं मे धृमसिंहश्च गौरमुंडश्च खेचरः ॥२३॥ हीमंतं पर्वतं ताभ्यामागतेन मयाऽन्यदा । यौवनश्रियमारूढा दृष्टा तापसकन्यका ॥२४॥ हिरण्यरोमतनया शिरीषसुकुमारिका । जहार हृदयं हृद्या नाम्ना मे सुकुमारिका ॥२५॥ गाढाकल्पकशल्याय पित्रा मे याचिता च सा । संवत्तश्चोभयोराशु विवाहः परमोत्सवः ॥२६॥ धृमसिंहोऽपि चामुष्यां साभिलाषोऽभिलक्षितः । अप्रमततया चाहं विहरामि तया सदा ॥२७॥ रममाणोऽय तेनाऽहं कीलितो मोचितस्त्वया । हताऽसौ मोचिता शत्रोमयेयं सामारिका॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org