________________
हरिवंशपुराणं ।
३१७
एकविंशतितमः सर्गः ।
प्रतीक्ष कथमीदृश्यः सादृश्यपरिवर्जिताः । दैवपौरुषसूचिन्यः संपदो भवतार्जिताः ॥ ३ ॥ वद विद्याधरी चेयं कुतः स्तुत्या तवास्पदे । न्यवसद् वसुभिः पूर्णे वर्षात्कर्णामृतं मम ॥ ४ ॥ इति पृष्टोऽवदत्सोऽस्मै प्रहृष्टमतिरादरात् साधु पृष्टमिदं धीर ! वच्मि ते श्रृणु वृत्तकं ॥ ५ ॥ आसीदत्रैव वैश्येशचंपायां सुमहाधनः । भानुदन्त इति ख्यातः सुभद्रा तस्य भामिनी ॥ ६ ॥ 'सम्यग्दर्शन संशुद्धिनानाणुव्रतधारिणोः । काले याति सुखांभोधिमग्नयोयवनस्थयोः ॥ ७ ॥ चिरायति तयोश्चित्तनयनामृतवर्षिणि । साक्षाद्गृहिफले श्रीमदपत्य मुखपंकजे ॥ ८ ॥ अर्हदायतने पूजां कुर्वाणावन्यदा च तौ । चारणश्रमणं दृष्ट्वा पुत्रोत्पत्तिमपृच्छतां ॥ ९॥ अचिरेणैव तेनापि यतिना कृपया तयोः । प्रधानसुतसंभूतिरादिष्टा पृष्टमात्रतः ॥ १० ॥ उत्पन्नचाचिरेणाहं तयोः प्रीतिकरःसुतः । चारुदत्ताभिधानश्च कृतः कृतमहोत्सवः ॥ ११ ॥ कृताणुव्रत दीक्षश्च ग्राहितः सकलाः कलाः । बालचंद्रः परां वृद्धिं बांधवांभोनिधेरघात् ॥ १२ ॥ वराहगोमुखाभिख्यहरिसिंहतमन्तकाः । मरुभूतिरिति प्रीता वयस्या मेऽभवंस्तदा ॥ १३ ॥ तैः सह क्रीडया यातो निम्नगां रत्नमालिनीं । आपदोपहतं पश्यन् दंपत्योः पुलिने पदं ॥ १४ ॥ जातविद्याधराशंकाः प्रगत्याऽनुपदं च तं । रतशय्यामपश्याम श्यामले कदलीगृहे ।। १५ ।।
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org