________________
हरिवंशपुराणं।
... ३१६
एकविंशतितमः सर्गः। वीणाघोषोत्तरश्रेणौ खगानां किंनरैः कृता । सिद्धकूट महाघोषा सुघोषा दक्षिणे तटे ॥६१॥ कृत्वा शासनवात्सल्यमुपसर्गविनाशनात् । विष्णुः स्वगुरुपादांते विक्रियाशल्यमुज्जहौ ॥६२॥ तपो घोरमसौ कृत्वा कृत्वांत घातिकर्मणां । विहृत्य केवली विष्णुर्मोक्षमंते ययौ विभुः ॥६३॥ इदं विष्णुकुमारस्य चरितं दुरितनाशनं । यः शृणोति जनो भक्त्या दृष्टिशुद्धिं श्रयेत् सः॥६४॥
स्वस्थानाञ्चलयेदलं गुरुतरांन्कामंदरान्मंदरां
श्चंद्राकानपि पातयेऽबरतलव्यापारतः पारतः । तोयेशान् विकिरेदुपप्लवयुतान्निर्मुक्तये मुक्तये
साधुः स्यात् किमु दुष्करं जिनतपाश्रीयोगिनां योगिनाम् ॥६५।। इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ विष्णुकुमारमाहात्म्यवर्णनो नाम विंशः सर्गः ।
एकविंशतितमः सर्गः। अथ गांधर्वसेनां तां कथंचित्खेचरान्वयां । अतिराजविभूतिं च चारुदत्तं निरूप्य सः ॥१॥ चारुगोष्ठीसुखास्वादश्चारुदत्तं यदूत्तमः । उदारचरितोऽपृच्छदुदारचारतप्रियः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org