________________
३१५
हरिवंशपुराणं। ..
विंशतितमः सर्गः। अनुमन्यस्व मे भूमि स्थातुं तेषां पदत्रयं । मातिकर्कशमात्मानं कुर्वयाचकयाचितः ॥४८॥ अनुमन्याब्रवीदित्थं तबहिः पदमप्यमी । यद्यतीयुस्ततो दंड्या न मे दोषोऽत्र विद्यते ॥४९॥ तदा हि पुरुषो लोके प्रत्यवायेन युज्यते । यदा प्रच्यवते वाक्यात् न तु वाक्यस्य पालकः॥५०॥ तं छलव्यवहारस्थमविनेयमनाजेवं । दुष्टाहिमिव दुःशीलं वशीकत्तुं प्रचक्रमे ॥५१॥ मिमामि पाप ! पश्य त्वं पदत्रयमितीरयन् । व्यंजभत महाकायो ज्योतिःपटलमास्पृशन् ॥५२॥ मेरावेकक्रमो न्यस्तो द्वितीयो मानुषोत्तरे । अलाभादवकाशस्य तृतीयोऽभ्रमदंबरे ॥५३॥ तदा विष्णोः प्रभावेन क्षुभिते भुवनत्रये । किं किमेतदितिध्वाना जाताः किंपुरुषादयः ॥५४॥ अनुकर्ण मुनेस्तस्य वीणावंशादिवादिनः । मृदुगीताः सनारीकाः जगुगंधर्वपूर्वकाः ॥५५॥ तस्य रक्ततलः पादो भ्रमन् स्वैरं नभस्यभात् । संगीतकिंनरादिस्त्रीमुखाब्जनखदर्पणः ॥५६॥ संक्षोभं मनसो विष्णो प्रभो संहर संहर । तपः प्रभावतस्तेऽद्य चलितं भुवनत्रयं ॥५७।। देवैर्विद्याधरैवीरैः श्रव्यगांधर्ववीणिभिः । सिद्धांतगीतिकागानरुच्चैराकाशचारणैः ॥५८॥ इति प्रसाद्यमानोऽसौ शनैः संहृत्य विक्रियां । स्वभावस्थोऽभवद्भानुर्यथोत्पातः समोत्थितः ॥५९।। उपसर्ग विनाश्याशु बलिं बचा सुरास्तदा । विनिगृह्य दुरात्मानं देशाद् दूरं निराकरन् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org