________________
हरिवंशपुराणं ।
३१४
विंशतितमः सर्गः न त्वाऽऽज्ञाफलमैश्वर्यमाज्ञादुर्वृत्तशासनं । ईश्वरः स्थाणुरप्युक्तक्रियाशुन्यो यदीश्वरः ॥३५॥ तन्निवर्णय दुर्वृत्तालिमाशु पशूपमं । प्रद्वेषः कोऽस्य मित्रारिसमभावेषु साधुषु ॥३६॥ साधोः शीतलशीतस्य तापनं न हि शांतये । गाढतप्तो दहत्येव तोयात्मा विकृति गतः ॥३७॥ धीराः प्रच्छन्नसामाः सुगाढा बद्धमूर्तयः। साधवोऽपि कदाचित स्युर्दाहका ननु चाग्निवत् ॥३८॥ तेन ते यावदायाति नापायो बल्युपेक्षणं । नृप ! तावनिवर्तस्व मोपेक्षस्व खतोऽन्यतः ॥३९॥ पद्मस्ततो नतः प्राह नाथ ! राज्यं मया बलेः । सप्ताहावधिकं दत्तं नाधिकारोधुनाऽत्र मे ॥४०॥ त्वमेव भगवन् गत्वा साधि ते कुरु ते वचः । बलिदाक्षिण्यतोऽलणादित्युक्त बलिमाप सः॥४१॥ आह चैनमथो साधो ! किं दिना निमित्तकं । संवर्द्धनमधर्मस्य कुरुषे कर्म गर्हितं ॥४२॥ तपः कर्मैकनिष्ठैस्तैः किमनिष्टमनुष्ठितं । वरिष्ठेन त्वया येषु कनिष्ठनेव यत्कृतं ॥४३॥ स्वकर्मबंधभीरुत्वान्नान्यानिष्टं कदाचन । तपस्विनो विचेष्टते मनोवाक्कायकर्मभिः ॥४४॥ तदित्यमुपशांतेषु न ते युक्तं दुरीहितं । उपसंहर शांत्यर्थमुपसर्ग प्रमादज ॥४५॥ ततो बलिरुवाचामी यांति मे यदि राज्यतः । तदा निरुपसर्गः स्यादन्यथा तदवस्थितिः॥४६॥ विष्णुरुचे स्वयोगास्था न यांति पदमप्यतः । कुर्वत्यमी तनुत्यागं न व्यवस्थितिलंघनं ॥४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org