________________
हरिवंशपुराणं।
विंशतितमः सर्गः। दत्तं गृहाण ते राज्यमित्युक्त्वाऽदृश्यवस्थितः । राज्यस्थोऽपि बलिस्तेषामुपद्रवमकारयन् ॥२२॥ यतीनभ्यंतरीकृत्य परितोऽहर्निशं कृतः । पत्रधूमादिकोच्छिष्टशरावोत्सर्जनादिकं ॥२३॥ उपसर्गसहास्तेऽपि कायोत्सर्गेण योगिनः । तस्थुः सालंबमादाय प्रत्याख्यानं ससूरयः ॥२४॥ तस्मिन् काले गुरुर्विष्णोमिथिलायावमवस्थितः। दिव्यज्ञानी जगौ ध्यात्वा स संयुक्तोऽनुकंपया २५ आचार्याकंपनादीनां ससप्तशतयोगिनां । वर्त्तते वृत्तपूर्वोज्यमुपसर्गोऽद्य दारुणः ॥२६॥ क्षुल्लकः पुष्पदंतस्तं क नाथेत्यतिसंभ्रमः । अप्राक्षीदित्यथ प्राह हास्तिनपुरे स्फुटं ॥२७॥ कुतोऽपवर्त्तते नाथ स इत्युक्ते जगौ गुरुः । प्राप्तवैक्रियकसामर्थ्याद्विष्णोर्जिष्णोर्विवृध्यतः।।२८॥ तस्मै स क्षुल्लको गत्वा तमुदंतं न्यवेदयत् । विक्रियालब्धिसद्भावपरीक्षामकरोन्मुनिः ॥२९॥ बाहुः प्रसारितस्तेन गिरिभित्तौ विभिद्यतां । अरुद्धः प्रसरो दूरं सहसाप्सु यथा तथा ॥३०॥ ज्ञातलब्धिपरिप्राप्तिर्जिनशासनवत्सलः । गत्वा पदं मुनिः प्राह प्रणतं प्रणतप्रियः ॥३१॥ पद्मराज ! किमारब्धं भवता राज्यवर्तिना । न वृत्तं कौरवेष्वत्र कदाचिदपि यद्भुवि ॥३२॥ अनार्यजनसंवृत्तमुपसर्ग तपस्विनां । निवर्तयेन्नृपस्तस्य प्रवृत्तिस्तु कुतस्ततः ॥३३॥ निर्वाप्यते ज्वलन्ननिर्जलेन सुमहानपि । उत्तिष्ठेद् यद्यसौ तस्मात्तस्य शांतिः कुतोऽन्यतः ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org