________________
३१२
हरिवंशपुराण।
विंशतितमः सर्गः गुर्वादेशाच्च संघोऽपि स्थितो मौनमुपाश्रितः । यांतःप्रतिनिवृत्यामी संमुखं वीक्ष्य योगिनं ॥९॥ अनूनुदं नपाध्यक्षं मिथ्यामागविमोहिताः ।प्रमाणमार्गतस्तान् सः जिगाय श्रुतसागरः ॥१०॥ स्थितं प्रतिमया रात्रौ जिघांसूस्ताश्च तद्दिवा । देवतास्तंभितान् दृष्ट्वा राजा देशादपाकरोत् ॥११॥ तदा नागपुरे चक्री महापद्म इतीरितः। अष्टौ च कन्यकास्तस्य ताश्च विद्याधरैर्हताः ॥ १२॥ आनीताः शुद्धशीलास्ताः संवेगिन्यःप्रवव्रजुः। तेऽपि संवेगिनोऽष्टौ च खेचराः तपसि स्थिता॥१३॥ चक्रवर्ती च तद्धेतोः पद्मं लक्ष्मीमतीसुतं । ज्येष्ठं राज्ये निधायांत्यदेहोऽदीक्षिष्ट विष्णुना ॥१४॥ तपो विष्णुकुमारोऽसौ रत्नत्रयधरस्तपन् । निधिर्बभूव लब्धीनां नदीनां वा नदीपतिः ॥१५॥ नवराज्यस्थमागत्य पद्मं बलिपुरोगमाः । मंत्रिणोऽशिश्रियन् देशकालावस्थाविदस्तथा ॥१६॥ स्थितं सिंहबलं दुर्गे पद्मो बल्युपदेशतः । गृहीत्वाऽऽह गृहाणेष्टं वरीत्वेति बलिस्तदा ॥१७॥ तं प्रणम्य विदग्धोऽसौ हस्तन्यासं न्यधाद्वरं । ततः संतोषिणां तेषां काले याति कदाचन।॥१८॥ आगत्याकंपनाचार्यस्तदा नागपुरं शनैः । मुनीनामग्रही योगं चातुर्मास्यावधि वहिः ॥१९॥ ततस्ते मंत्रिणो भीताः शंकाविषमुपागताः । तदपाकरणोपायं चिंतयंति स्म सस्मयाः॥२०॥ अब्रवीद् बलिराश्रित्य पद्म राजन् ! वरस्त्वया । दत्तः स दीयतां मेऽद्य राज्यं सप्तदिनावधि ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org