SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । विंशतितमः सर्गः। कृत्वा यः शीघ्रमस्मिन्झटिति घटयति माज्यलाभैःपुमांसं कत्तुं भव्यास्तमेकं पथि जिनकथिते धर्मबंधुं यतध्वं ।। २६७ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ गांधर्वसेनावर्णनो नाम एकोनविंशतितमः सर्गः । विंशतितमः सर्गः। अथापृच्छत्पृथुश्रीकः श्रेणिकोऽत्र गणेश्वरं । कथं विष्णुकुमारेण विभो बलिरवध्यत ॥१॥ अभणीद्गणमुख्यश्च श्रृणु श्रेणिक ! वैष्णवीं । दृष्टिशुद्धिकरीं श्रव्यां सत्कथां कथयामि ते ॥ २ ॥ उज्जयिन्यां भवेद्राजा श्रीधर्मो नाम विश्रुतः । श्रीमती श्रीमती तस्य महादेवी महागुणा ॥३॥ चत्वारो मंत्रिणश्चास्य मंत्रमार्गविदो बलिः । वृहस्पतिश्च नमुचिःप्रल्हाद इति चांचितः ॥४॥ अन्यदा श्रुतपारस्थः ससप्तशतसंयतः । आगत्याकंपनस्तस्थौ बाह्योद्याने महामुनिः ॥ ५॥ वंदनार्थ नृपो लोकं निर्यातमिव सागरं । प्रासादस्थस्तदालोक्य मंत्रिणोऽपृच्छदित्यसौ ॥ ६ ॥ अकालयात्रया लोकः क यातीति ततो बलिः। राजन्नज्ञानिनो दृष्टुं श्रमणानित्यवेदयत् ॥ ७॥ ततो जिगमिषू राजा निषिद्धोऽपि बलाद् ययौ । मंत्रिणोऽपि सहागत्य दृष्ट्वा किंचिदवीवदन् ॥८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy