________________
हरिवंशपुराणं ।
३१०
एकोनविंशः सर्गः ॥
सषड्जो मध्यमश्चात्र संचारस्तु विधीयते । यथा रसं विना योग्या जातयः स्वरसंचराः ॥ २५७॥ इत्यादि स यथायोग्यं तथा गंधर्वविस्तारे । सुगीते वसुदेवेन श्रोतारो विस्मयं ययुः ।। २५८ ।। बुरुर्नारदः किंवा गंधर्वः किंनरो ह्ययं । वीणावादनमीदृक्षं कुतोऽन्यस्येति वेदनं ॥ २५९ ॥ विष्णुगीतक्रमोदेशस्थानं गीतं सुवीणया । श्रुत्वा गांधर्वसेनाऽभूद्विस्मिता च निरुत्तरा || २६०॥ तदा जयपताकायां वसुदेवेन संसदि । गृहीतायां समुत्तस्थौ गंभीरः साधुनिस्वनः ।। २६१ ॥ अनुरागवती बत्रे वसुदेवं स्वभावतः । कंठे कंठगुणं कन्या कुर्वती तस्य संसदि ॥ २६२ ॥ गंधर्व इव देवोऽसौ व्रतो गंधर्वकन्यया । गांधर्वसेनया हर्षसंबंधं जगतो व्यधात् ॥ २६३ ॥ चारुदत्तस्ततस्तुष्टो यथोक्तविधिना ततः । विवाहो मगधाधीशो निरवर्त्तयदेतयोः ॥ २६४ ॥ सुग्रीवश्च यशोग्रीव उपाध्वायो च कन्यके । वितीर्य वसुदेवाय नितांत तोषमापतुः ॥ २६५ ॥ कलागुणविदग्धाभिस्ताभिरानकदुंदुभिः । रामाभिरभिरामाभिश्चिरं चिक्रीड तत्र सः ।। २६६ ।। लब्ध्वा लुब्धेन रं कथमपि हरता वैरिणा खेऽतिदूरं नीत्वा मुक्तं पततं गतशरणमधः पद्मखंडोपधानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org