________________
हरिवंशपुराणं ।
३०८
एकोनविंशः सर्गः ।
लंघन च तौ नित्यमार्षभाद्धवैतं व्रजेत् । इति गांधारविहितः स्वरन्यासांशसंचरः ॥२३६॥ लक्षणं रक्तगांधार्या एवं तत्समतां गतं । बलवाँचैव तत्र स्याद्धैवतः पंचमस्तथा || २३७|| गांधारषड्जयोवा संचारो शुभयं विना । उपन्यासो मध्यमस्तु मध्यमस्तु विधीयते ॥ २३८ ॥ बहुमध्यमय वा कार्य बाहुल्यमेव हि । गांधारलंघनं चात्र नित्यं कार्य प्रयोक्तृभिः ॥ २३९ ॥ मध्यमोदीव्यवायाः स्यादेको वंशस्तु मध्यमः । शेषो विधिश्व कर्त्तव्यो मध्यमायास्तु यो भवेत् ॥ २४० ॥ द्वादशावथपंचम्यामृषभः पंचमस्तथा । उपन्यासो भवेदेको न्यासश्चैव तु पंचमः ॥२४१ ॥ मध्यमाया विधियोंऽत्र पाडवोडविते तथा । दौर्बल्यं चात्र कर्त्तव्यं षड़गांधारपंचमैः ॥ २४२॥ कुर्यादत्र संचारं पंचमस्यर्षभस्य च । गांधारगमनं चैव कुर्यादपि च पंचमैः || २४३॥ अथ गांधारपंचम्याः पंच दोषाः प्रकीर्त्तिताः । पंचमचर्षभश्चैव ह्युपन्यासः प्रकीर्तितः ॥ २४४ ॥ १ ख पुस्तके अस्मादयेतनः पाठः
गांधीच्यवायास्तु विज्ञेयौ षड्जमध्यमौ । सप्तमश्च ततोऽन्यत्र षट्स्वर्थमृषभं विना ॥ कार्यःस्वंतरमार्ग्रश्च न्यासोपन्यास एव च । गांधारोदीच्यवायास्तु तत्र सर्वो विधिः स्मृतः ॥ मध्यमायाः भवेदंशौ विना गंधार सप्तमः । एक एव ह्युपन्यासो न्यासश्चैव तु मध्यमः ॥ गांधारसप्तमोपेतं पंचस्वर्यं विधयते । षट्स्वरं चापि गांधारं कर्त्तव्यं तु प्रयोगतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org