________________
हरिवंशपुराणं ।
एकोनविंशः सर्गः । आरोहणीयौ तौ कार्यों लंघनायौ तथैव च । निषादश्वर्षभश्चैव गांधारो बलवाँस्तथा ॥ २२३ ॥ निषादश्च निषादोऽसौ गांधारवर्षभस्तथा । एवमेते छुपन्यासा न्यासश्चैव तु सप्तमः ॥ २२४ ॥ धैवत्या अपि कर्त्तव्यो पाडवौडविकौ तथा । तद्वच्च लंघनीयौ तु बलवंतौ तथैव च ।। २२५ ॥ अंशास्तु षड्जकैशिक्या ज्ञेयौ गांधारपंचमौ । उपन्यासाश्च विज्ञेयाः षड़पंचममध्यमाः ॥ २२६ ॥ गांधारश्च भवेन्न्यासो हीनस्वर्यं नवात्र तु । दौर्बल्यं चात्र कर्त्तव्यं धैवतस्यर्षभस्य च ॥ २२७॥ षड्जश्च मध्यमश्चैव निषादो धैवतस्तथा । षड्जगोदीच्यवांशास्तु न्यासश्चैवात्र मध्यमः || २२८ ॥ उपन्यासस्तथा चैव धैवतः षड्ज एव तु । परस्परांशातिगमच्छंदतश्च विधीयते || २२९ ॥ पंचम महीनं तु पंचमं यत्तु तत्र वै । षड्जश्वाप्यर्षभश्चैव गांधारश्च बली भवेत् ॥ २३०॥ षड्जमध्यास्तु सर्वेषामुपन्यासास्तथैव च । षड्जश्च सप्तमश्चैव न्यासौ कार्यों प्रयोक्तृभिः ॥२३१॥ गांधारं सप्तमोपेतं पंचस्वर्य च तद् भवेत् । षाडवः सप्तमोपेतः कार्यचैवात्र योगतः || २३२ || सर्वस्वराणां संचार इष्टवस्तु विधीयते । षड्जग्रामाश्रया ह्येताः विज्ञेयाः सप्त जातयः || २३३ || गांधार्याः पंचधैवांशा धैवतर्षभवर्जिताः । षड्जश्च पंचमश्चैव ह्युपन्यासाः प्रकीर्त्तिताः || २३४ || गांधारो भवेन्न्यासौ षाडवर्षभसंभवः । धैवतर्ष महीनं च तथा चौडुवितं भवेत् ॥ २३५॥
1
Jain Education International
३०७
For Private & Personal Use Only
www.jainelibrary.org