SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ३०६ एकोनयिंशः सर्ग ग्रहाद्यशाश्च चत्वारस्तथैवांत्याः प्रकीर्तिताः। षड्गश्चाप्यृषभश्चैव मध्यमः पंचमस्तथा ॥ २११ ॥ मध्यमायां ग्रहांशौ तु गांधारो धैवतस्तथा । निषादषड्गगांधारा मध्यमाः पंचमस्तथा ॥२१२॥ गांधारो रक्तगांधार्या ग्रहांशाः परिकीत्तिताः। अंचितर्षभयोगास्तु कौशिकांशा ग्रहास्तथा॥२१३।। स्वराः सर्वे च विज्ञेयाः ग्रहाशौ षड्जमध्यमौ । एवं त्रिषष्टिर्विज्ञेया ग्रहाश्चांशा:स्वजातषु ॥२१४॥ अंशवच्च ग्रहा ज्ञेयाः सर्वास्वपि हि जातषु । सर्वासामेव जातीनां त्रिजात्यस्तु गुणाःस्मृताः॥२१५॥ षड्गुणस्तेषु विज्ञेया वर्द्धमानाः स्वरास्तथा । एकस्वरो द्विस्वरश्च त्रिस्वरोऽथ चतुःस्वराः॥२१६॥ पंचस्वरस्तथा चैव षट्स्वराः सप्तकस्तथा। पूर्वमुक्तमिदं त्वासां ग्रहांशपरिकल्पनं ॥ २१७ ॥ पंचैव तु भवेत् षड्गे निषादर्षभहीनतः । उपन्यासा भवत्यत्र गांधारः पंचमस्तथा ॥ २१८ ॥ न्यासश्चात्र भवेत् षष्ठो लोपो वै सप्तमर्पभो । गांधारस्य तु बाहुल्यं तत्र कार्य प्रयोक्तृभिः॥२१९॥ आर्षभ्यास्तु तथा त्वंशौ निषादो धैवतस्तथा । एतावतो छुपन्यासा न्यासश्चाप्यार्षभस्तथा ॥२२०॥ धैवत्या धैवतश्चैव न्यासश्चवार्षभः स्मृतः। उपन्यासा भवंत्यत्र धैवतर्षभपंचमाः॥ २२१ ॥ पड्गपंचमहीनं च पंचस्वयं विधीयते । पंचमे च विना चैव पाडवः परिकीर्तितः ॥ २२२ ॥ १ कौशिकीसग्रहास्तथा इति ख पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy