________________
हरिवंशपुराणं ।
३०५
एकोनविंशः सर्गः। जातीनां लक्षणं तारो मंद्रो व्यासादिरेव च । अल्पत्वं च बहुत्वं च षाडवौदुचिते तथा ॥१९८॥ एवमेता बुधैर्जेया जातयो दशलक्षणाः । यथा यस्मिन् रसे यावदिति तत्प्रतिपाद्यते ॥ १९९ ॥ यस्मिन् भवति रागश्च यस्माच्चैव प्रवर्त्तते । मंद्रश्च तारमंद्रश्च योऽत्यर्थमुपलभ्यते ॥ २००॥ ग्रहोपन्यासविन्याससंन्यासन्यासगोचरः । अनुवृत्तिश्च या चेह सोऽशः स्यादुपलक्षणः ॥२०१॥ संसारोत्साचलस्थानमल्पत्वं दुबलासु च । द्विविधोत्तरमोर्गस्तु जातीनां व्यक्तिकारकः ॥२०२॥ मंद्रात्वं पसरो नास्ति न्यासौ तु द्वाववस्थितौ । गांधारो न्यासलिंगं तु दृष्टमार्षभमेव च।।२०३॥ ग्रहस्तु सर्वजातीनामंशवत् परिकीर्तितः । यत्प्रवृत्ते भवेदंशः सोंग्शो ग्रहविवर्जितः ।। २०४ ॥ द्वैग्रामिकीनां जातीनां सर्वासां चैव नित्यशः । अंशास्त्रिषष्टिविज्ञेयास्तासां वै षट् सुसंग्रहं ॥२०५॥ मध्यमोदीच्यवायास्तु नंदयंत्यास्तथैव च । ततो गांधारपंचम्यां पंचमोऽशो ग्रहस्तथा ॥२०६॥ धैवत्याश्च तथा द्वयशौ विज्ञेयौ धैवतर्षभौ । पंचम्याश्च तथा ज्ञेयौ ग्रहांशी पंचमर्षभौ ॥ २०७ ॥ गांधारो दीव्यवायाश्च ग्रहांशी षड्जमध्यमौ । आर्षभ्यास्तु तथा चैव विज्ञेया धैवतर्षभौ ।। २०८ ॥ निषादः षाडवश्चैव गांधारोऽथर्षभस्तथा । तथैव षड्गकौशिक्याः षड्गगांधारमध्यमाः॥२०९ ॥ तिसूणामपि जातीनां ग्रहान्यासाश्च कीर्चिताः । गांधार ऋषभश्चैष निषादः पंचमस्तथा ।। २१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org