________________
हरिवंशपुराणं।
३०४
एकोनविंशः सर्ग कौशिकी चेति विज्ञेया पंचता मध्यमाश्रयाः।यास्ताः पंच स्वरा ज्ञेया याश्चैताः षट् स्वराः स्मृताः। कदाचित् षोडशी भूता कदाचित् पडवीकृताः । षड्गग्रामे च संपूर्णा विज्ञेया बहुकौशिकी ॥१८६॥ षट् स्वराश्चैव विज्ञेया षड्गे ता गानयोगतः। संपूर्णा मध्यमग्रामे ज्ञेया कारवी तथा ।। १८७ ।। गांधारपंचमी चैव मध्यमोदीच्यवा तथा । पुनश्च षट्स्वरोपेता गांधारोदीच्यवा तथा ॥१८८॥ आंध्री च नंदयंती च मध्यमग्रामसंश्रयाः । एवमेता बुधैया द्वैग्रामिक्यो हि जातयः ॥ १८९ ॥ षट् स्वरैः सप्तमस्त्वंशो नेष्यते षड्गमध्यमः। संवादिलोपाद् गांधारस्तत्रैव न विशिष्यते ॥१९०॥ गांधारी रक्तगांधारी कैशिकीनां च पंचमः । षड्गायाश्चैव मांधारी मनसं द्विद्विषाडवं ॥१९१।। पाडवे धैवतो नास्ति षड्गोदीच्या वियोगतः। संवादिलोपात्सप्तैताः षट्स्वरेण विवर्जिताः॥१९२।। आसां तु रक्तगांधार्याः षड्गमध्यमपंचमाः । सप्तमश्चैव विज्ञेयो येषु नौडवितं भवेत् ॥ १९३ ॥ द्वौ षड्गमध्यमावंशौ गांधारोऽथ निषादवान् । ऋषभश्चैव पंचम्याः कौशिक्याश्चैव धैवतः॥१९४॥ एवं तु द्वादशैवेह वा पंच स्वरे सदा। यास्तु नोडविता नित्यं कर्तव्या हि स्वराश्रयाः।।१९५॥ सर्वस्वराणां नाशस्तु विहितस्त्वथ जातिषु । न मध्यमस्य नाशस्तु कर्तव्यो हि कदाचन।।१९६॥ सर्वस्वराणां प्रवरो ह्यनाशान्मध्यमः स्मृतः । गांधर्वकल्पे विहिते समस्तेष्वपि मध्यमः ॥१९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org