________________
हरिवंशपुराणं।
एकोनविंशः सर्गः अंतरस्वरसंयोगो नित्यमारोहिसंश्रयः। कार्योऽह्यल्पविशेषेण नावरोही कदाचन ॥ १७२ ॥ क्रियमाणोऽवरोही स्यादल्पो वा यदि वा बहु । याति रागं श्रुतिश्चैव नयते स्वं ततस्वरः॥१७३॥ षड्गी स्यादापभी चैव धैवत्यथ निषादजा। सुषड्गा दिव्यवाचैव तथा वै षड्गकोशिकी॥१७४॥ षड्गमध्या तथा चैव षड्गग्रामसमाश्रया। जातयोऽष्टादशोद्दिष्टा मध्यमग्रामजाश्लिताः ॥१७५॥ गांधारी मध्यमा चैव गांधारी दिव्यवा तथा । पंचमी रक्तगांधारी तथाऽन्या रक्तपंचमी॥१७६।। मध्यमोदिव्यवा चैव नंदयंती तथैव च । कर्मारवी च विज्ञेया तथांनी कौशिकी तथा ॥१७७॥ स्वरसाधारणगतास्तिस्रो ज्ञेयास्तु जातयः। मध्यमा षड्गमध्या च पंचमी चेति सूरिभिः।। '७८॥ ताश्चापि द्विविधाः शुद्धा विकृताश्च प्रकीर्तिताः । अपरस्परनिष्पन्ना ज्ञेयाश्चैव तु जातयः।।१७९॥ अपृथग्लक्षणैर्युक्ता द्वेग्रामिक्यः स्वरप्लुताः । चतस्रो जातयो नित्यं ज्ञेयाः सप्त स्वरा बुधैः।।१८०॥ चतस्रः षट्स्वराश्चान्या दश पंच स्वराः स्मृताः । मध्यमो दीव्यवा चैव तथा वै षड्गकोशिकी।१८१॥ कारवी च संपूर्णा तथा गांधारपंचमी । षड्गांघ्री नंदयंती च गांधारो दीव्यवा तथा ॥१८२॥ चतस्रः षट् स्वरा ह्येताः शेषाः पंच स्वरा दश । निषादवृषमी चैव धैवती षड्गमध्यमा ।।१८३॥ षड्गोदीच्यवती चैव पंच षड्गाश्रया स्मृताः। गांधारी रक्तगांधारी मध्यमा पंचमी तथा॥१८४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org