________________
हरिवंशपुराणं।
३०२
एकानविंशः सर्गः। षड्गश्चतुःश्रुतिश्चैव निषादो द्विश्रुतिस्तथा । धैवतस्त्रिश्रुति यः पंचमस्त्रिश्रुतिस्तथा ॥ १५९ ॥ द्वाविंशतिस्त्विमा वेद्या श्रुतयोऽत्र निदर्शनात् । द्वैग्रामिक्यस्तथैव स्युर्मूर्च्छनास्तु चतुर्दश॥१६०॥ आदावुत्तरमंद्रा स्याद् रजनी चोत्तरायता । चतुर्थी शुद्धषड्गा तु पंचमी मत्सरीकृतः॥१६१॥ अश्वक्रांता तथा षष्ठी सप्तमी चाभिरुद्गता। षद्गग्रामाश्रिता ह्येता विज्ञेयाः सप्त मूर्च्छनाः॥१६२॥ सौवीरी हरिणाश्वा च स्यात्कलोयवना तथा । शुद्धमध्यमसंज्ञा च मार्गवी पौरवी तथा ॥१६३॥ रिष्यका सप्तमी चेति मूर्च्छनाः सप्त वर्णिताः । मध्यमग्रामसंभूता बोद्धव्या बुधसप्तमैः ॥१६४॥ षड्गेनोत्तरमंद्रा स्यादृषभेनाद्रिरुद्रता । अश्वक्रांता तु गांधारे मध्यमे मत्सरीकृता ।। १६५ ॥ पंचमे शुद्धषद्गा स्याद्धैवते चोत्तरायता । निषादे रजनी ज्ञेया इत्येता सप्त मूर्च्छनाः ॥ १६६ ॥ मध्यमग्रामजाचापि मध्यमे गंधरर्षभैः । षड्गेन च निषादेन धैवतेन च मूर्च्छनाः ॥ १६७ ॥ पंचमेन च विज्ञेया सौवीयोद्या यथाक्रमं । रिष्यकांता इतीमाश्च ताश्चतुर्दश मूच्छनाः ॥ १६८॥ षट्पंचैकस्वरास्तानाः षाडवौडवसंश्रयाः । साधारणकृताश्चैव काकलीसमलंकृता ॥ १६९ ॥ आंतरस्वरसंयुक्ता मूर्च्छना ग्रामयोयोः । द्विधैकमूर्च्छनासिद्धिर्यथायोगमुदाहृताः ॥ १७० ॥ तानाश्चतुरशीतिः स्युः पंचपदस्वरसंभवाः । ते पंचत्रिंशदेकानपंचाशच यथाक्रमं 4 ११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org