SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ३०१ एकोनविंशः सर्गः । अतिवृत्तिस्वरग्रामवर्णालंकारमूर्च्छनाः । धातुसाधारणाज्याचं दारुवीणा स्वराः स्मृताः || १४७॥ जातिवर्णस्वरग्रामस्थानसौधरणक्रियाः । सालंकारविधिश्वायं शारीरस्वरगोचरः ।। १४८ ॥ अतितद्धितवृत्तानि संधिस्वरविभक्तयः । नामाख्यातोपसर्गाद्या वर्णाद्यास्ते पदे विधिः ॥ १४९ ॥ आवायश्चापि निःक्रामो विक्षेपश्च प्रवेशनं । शम्यातालं परावर्त्तः सन्निपातः सवस्तुकः ॥ १५० ॥ मंत्राविदार्यगलयागतिप्रकरणं यतिः । गीती च माग्रवयवाः पादभागाः सपाणयः ।। १५१ ।। द्वाविंशतिप्रमाणोऽयं विधिस्तालगतस्तदा । गंधर्वसंग्रहस्तत्र प्रयुक्तस्तेन विस्तरः ।। १५२ ।। खड्गश्चाप्यृषभश्चैव गांधारो मध्यमोऽपि च । पंचमो धैवतश्च स्यान्निषादः सप्तमः स्वरः ।। १५३ ।। वादी चापि च संवादी तौ विवाद्यनुवादिनौ । प्रयुक्ता वसुदेवेन चत्वारोऽमी यथाक्रमं ॥ १५४॥ संवादो मध्यमग्रामे पंचमस्यर्षभस्य च । षड्गग्रामे च षड्गस्य संवादः पंचमस्य च ॥ १५५ ॥ पङ्गचतुःश्रुतिश्च स्यादृषभस्त्रिश्रुतिस्तथा । गांधारो द्विश्रुतिश्चैव मध्यमश्च चतुःश्रुतिः ।। १५६ ।। चतुर्भिः पंचभिचैव द्विश्रुतिधैवतस्तथा । त्रिश्रुतिश्च निषादोऽपि षड्गग्रामे स्वरास्त्वमी ॥ १५७ ॥ चतुःश्रुतिश्च विज्ञेयो मध्यमे मध्यमाश्रयः । द्विःश्रुतिश्चैव गांधार ऋषभस्त्रिश्रुतिः स्मृतः ।। १५८।। १ ' याश्च ' इति ख पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003657
Book TitleHarivanshpuranam Purvarddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages450
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy