________________
हरिवंशपुराणं।
३००
एकोनविंशः सर्गः। ततः कन्या सभामध्यमविशद्विशदप्रभा । स्वलंकृता दिवो मध्यं प्रावृषीव शतहदा ॥१३४॥ वीणावाद्यविदग्धेषु जितेषु बहुषु क्रमात् । गंधर्वसेनया यद्वत् मूर्तगांधर्वविद्यया ॥१३५॥ वसुदेवः समासीनस्ततः सोऽपि वरासने । समानीताः समानीतां वीणाः स समदूषयत् ॥१३६॥ सुघोषाख्यां ततो वीणां दत्ता गंधर्वसेनया । सुसप्तदशतंत्रीकां संताड्य मुदितोऽवदत् ॥१३७॥ साध्वी साध्वी सुवीणेयं प्रवीणे ! दोपवर्जिता। वद गांधर्वसेने! ते गेयवस्तु मनीषितं ॥१३८।। मृदूपवीणयाम्येषामादेशस्थानमग्रतः। विदुषां दीयतां मेऽद्य गेयवस्तुनि पंडिते ॥ १३९ ॥ साऽऽह विष्णुकुमारस्य बलिबंधनकारिणः । त्रिविक्रमकृतौ गीतं हाहातुंबुरुनारदैः ॥१४०॥ यत्तदद्य त्वया वस्तु वाद्यतां वाद्यविद् यदि । पुराणप्रतिबद्धं हि गेयवस्तु प्रशस्यते ॥ १४१ ॥ ततं चाप्यनवद्धं च धनं सुषिरमित्यपि । यथास्वं लक्षणैर्युक्तमातोद्यं स्याच्चतुर्विधं ॥ १४२ ॥ ततं तंत्रीगतं तेषामनवद्धं हि पौष्करं । घनं तालस्ततो वंशस्तथैव सुषिराख्यया ॥ १४३ ॥ प्राणिप्रीतिकरं प्रायः श्रवणेंद्रियतर्पणात् । गांधर्वदेहसंबद्धं ततं गांधर्वमीरितं ।। १४४ ॥ वीणा वंशश्च गानं च तस्य योनिरितीरितं । गांधर्व त्रिविधं चैतत्स्वरतालपदे गतं ॥ १४५ ॥ वैणाथापि च शारीरा द्विविधास्तु स्वराः स्मृताः। विधानं लक्षणं चापि तेषामिति निरूपितं ॥१४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org