________________
२९९
हरिवंशपुराणं।
एकोनविंशः सर्गः। लोकं वीक्ष्य तु तत्राऽसौ वीणाहस्तमितोऽमुतः। अप्राक्षीद्विप्रमेकं हि बभ्रमातीति किं जनः ॥१२१॥ सोऽब्रवीचारुदत्ताख्यः कुबेरविभवः प्रभुः । पुर्यामिभ्यपतिस्तस्य तनयारूपगर्विता ॥ १२२ ।। नाम्ना गंधर्वसेनेति गांधर्वपथपंडिता। गांधर्वे योऽत्र मे जेता स भत्यवतिष्ठते ॥ १२३ ॥ तदर्थमत्र लोकोऽयं मिलितो लोभनोदितः। वीणावादनविज्ञानो नानादेशसमागतः ॥ १२४ ॥ रूपलावण्यसौभाग्यसागरप्लवकारिणी । हरिणी हरिणीनेत्रा कन्या व्यमोहयजगत् ॥ १२५ ॥ कन्यार्थी च यशोऽर्थी च बीणाविधिविशारदः। ब्राह्मणः क्षत्रियो वैश्यो जयार्थी हि जनः स्थितः १२६ मासे मासे समाजश्च भवत्यत्र कलाविदां । सदा जयपताकाया ही कन्या सरस्वती ॥१२७॥ समाजः समतीतश्च ह्यस्तनेऽहनि सांप्रतं । गुणनैकमनस्कानां पुनासेन जायते ॥१२८॥ उपाध्यायः प्रसिद्धोत्र किनामा सांप्रतं पुरि । वदेति तेन पृष्टश्च जगौ सुग्रीव इत्यसौ ॥१२९॥ ऊचे गत्वेति सुग्रीवमभिवाद्य गृहीव सः। गौतमो गोत्रतस्तेऽहं कत्तुमिच्छामि शिष्यतां १३०॥ अभिरूपोऽतिमुग्धोऽयमिति मत्वा दयावता । प्रतिपन्नश्च तत्रास्थाद्वीणया हासयजनं ॥१३१।। संप्राप्ते दिवसे तस्मिन् समाजोऽभूत्स पूर्वक्त् । वसुदेवोऽपि संविश्य पश्यति स्म महाजनं ॥१३२॥ सा चुक्षोभ सभा लोकैर्वाद्यश्रवणवेदिभिः । कौतूहलिभिरन्यैश्च महाकोलाहलाकुलैः ॥१३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org