________________
हरिवंशपुराणं ।
एकोनविंशः सर्गः ।
अन्योन्यप्रतिघातो भूत्व खेट कसंकटः । खड्गस्यूतस्फुलिंगांगमंगारकमथाकरोत् ॥ १०९ ॥ मायायुद्धमिदं दृष्ट्वा तयोः सहृदये रिपुं । दृढमुष्टिप्रहारेण प्राणसंदेहमावहत् ।। ११० ।। मुक्तश्च दुःखिना खिन्नः स खे श्यामानियुक्तया । स्वपुरं नीयमानोऽसौ तथा खाद्ध्वनिरुद्गतः । १११ ॥ खेटस्यैवात्र लाभोऽस्ति भविष्यो मुंच सांप्रतं । मुंचितो यादवेंद्रो ऽसौ तया श्यामलछायया ॥ १९२॥ समर्पितः स्वविद्याया जगाम स्वगृहं प्रति । विद्यया पर्णलध्वायं गां शनैः पर्णवल्लघुः ॥ ११३ ॥ वाह्योद्यानेऽथ चंपायाः पतितोंबुज संगमे । सरस्यंबुरुहच्छन्ने तदुत्तीर्य तटीमितः ॥ ११४ ॥ मानस्तंभादिसंलक्ष्यं वासुपूज्यजिनालयं । परीत्य तत्र वंदित्वा दीपिकोज्ज्वलितेऽवसत् ।। ११५॥ देवार्चनार्थमायातं प्रत्यूषे द्विजमत्र सः । अपृच्छद्विषयः कोऽयं पुरीयं चेति सोऽवदत् ॥ ११६॥ अंगो जनपदपा - पुरी त्रिभुवनश्रुता । किं न वेत्सि किमाकाशात्पतितस्त्वं महामते ।। ११७ ॥ सत्यमेतद् द्विज! ज्ञातं किमु ज्योतिषविद् भवान् । अस्ति संवादि ते ज्ञानं नान्यथा जिनशासनं। ११८ ॥ हृतो यक्षकुमारीभ्यां रूपलोभान्नभस्तलात् । च्युतश्च पतितो भूमावन्योन्य कलहे तयोः ॥ ११९ ॥ इत्युत्तरमसौ दत्त्वा विप्रवेषधरोऽभवत् । पुरीं विशन् विशालाक्षो गंधर्वनगरीनिभां ॥ १२० ॥ १ प्रतिघातमनेकाऽभूत्खङ्गखेट कसंकटा । इति क पुस्तके |
Jain Education International
२९८
For Private & Personal Use Only
www.jainelibrary.org