________________
हरिवंशपुराणं ।
२९७
एकोनविंशः सर्गः। सविशेषमसौ तत्र विद्याधरजगद्गतं । हृद्यं गांधर्वविज्ञानं शिशिक्षे क्षतमत्सरः ॥ ९६ ।। निःप्रमादतया याति तयोः काले कदाचन । चिराय सुरतक्रीडाखिन्नयोर्निशि सुप्तयोः ॥९७॥ संगत्यांगारकः स्वैरं विश्लिष्याश्लेषबंधनं । श्यामाया शयनात् जडू गरुडो वा नृपोरगं ।।९८॥ स्वं बुद्धा द्वियमाणं खे खेचरं स निरीक्षितं । कस्त्वं हरसि मां पाप मुंचमुचेति भाषणः ॥९९।। बुद्धाप्यांगारकं शत्रु श्यामया कथिताकृति । नावधीद् बद्धमुष्टिः खादधःपतनशंकया ॥१००॥ तावच्च सहसा बुद्ध्वा खडखटकहस्तया । वेगिन्या प्राप्तया रुद्धः शौरिबध्वा सशूरया ॥१०॥ तिष्ठ तिष्ठ दुराचार चौरखेचर निघृण ! हरसि प्राणनाथं मे जीवंत्यां मयि भोः कथं ॥१०२॥ राज्यस्थोऽपि न संतुष्टः सदाऽस्मदुःखींचंतक । चिरेणाद्य मया दृष्टः क प्रयासि मृतोऽधुना॥१०३॥ इति व्याहृत्य रुद्धाऽग्रे खड़मुद्गीर्य तां स्थितां । बभाण रिपुमात्मानं रक्षन् राक्षसरूक्षवाक् ॥१०४॥ श्यामिके स्त्रीवधो लोके गर्हितोऽपसराधमे । स्वसाऽपि मे कथं हस्तो हंतुमुद्यत्कृतित्विकां ॥१०५॥ का स्त्री का वा स्वसा भ्राता को वै कार्याभिलाषिणः। वैरिणो ननु हतारो हंतव्या नात्र दुर्यशः।१०६॥ सिंही व्याघ्री च किं पुंसां मारयंती न मार्यते । वृथा न्यायविचारोऽयं जहि यद्यस्ति पौरुषं ॥१०७ ॥ विद्याशाखाबलेनोत्थां रुद्धमार्गा जघान सः। खडधाराशिलाघातैः श्यामामंगारकोत्करः ॥१०८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org